________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहारसूत्रम् तृतीय उद्देशकः
६८९ (A)
अबहुश्रुतोऽगीतार्थो वा यदि गणं निसृजति धारयति वा स्वयम्। किमुक्तं भवति ? आद्यानां त्रयाणां भङ्गानामन्यतरो यदि गणं गीतार्थस्य अगीतार्थस्य वा निसृजति स्वयं वाऽऽद्यानां त्रयाणां भङ्गानामेकतरः सन् यदि गणं धारयति एकं द्वौ वा दिवसौ, उत्कर्षतः सप्तरात्रिन्दिवानि ततस्तद्देवसिकस्तेषां सप्तानां दिवसानां निमित्ततस्तस्य गणं निस्रष्टर्धारयितुर्वा प्रायश्चित्तं चत्वारो मासा गुरुकाः ॥१४०१ ॥
सत्तरत्तं तवो होई, ततो छेदोपधावती। छेदेणऽछिन्नपरियाए, ततो मूलं ततो दुगं ॥ १४०२ ॥
अन्यद् अन्यतः सप्तरात्रं यावद्गणस्य निसर्जने धारणे वा प्रायश्चित्तं तपो भवति। ततः तप:प्रायश्चित्तपरिसमाप्त्यनन्तरं तपःक्रमेण च्छेदः प्रधावति। छेदेन चेन्न छिन्नः पर्यायो भवति ततोऽच्छिन्नपर्याये तस्मिन् मूलं दीयते, । ततोऽप्यतिक्रमे अन्तिम द्विकमनवस्थाप्यपाराञ्चितलक्षणम्। इयमत्र भावना- प्रथमसप्तदिवसानन्तरमन्यानि चेत् सप्त दिनानि गणं निसृजति धारयति वा स्वयं ततः प्रायश्चित्तं षड् लघु, ततोऽप्यन्यानि सप्तदिनानि चेत्ततः षड्गुरु, तदनन्तरमप्यन्यानि चेत् सप्तदिनानि ततश्चतुर्गुरुकच्छेदः, ततोऽप्यन्यसप्तदिवसातिक्रमे
गाथा |१३९९-१४०३
अयोग्यस्य गणधारणे प्रायश्चित्तम्
६८९ (A)
For Private and Personal Use Only