________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५१६ (A)
भावे पसत्यमियरं, होइ पसत्थं तु णाणि णोणाणे। केवलि छउमं णाणे, णोणाणे दिट्ठि चरणे य ॥ ९६९ ॥
भावद्विकं द्विधा आगमतो नोआगमतश्च। तत्रागमतो द्विकशब्दार्थज्ञाता तत्र चोपयुक्तः, 'उपयोगो भावनिक्षेप' इतिवचनात्। नोआगमतो द्विधा, तद्यथा- प्रशस्तमितरच्च। इतरन्नामाऽप्रशस्तम्। तच्चेदं रागो द्वेषश्च। प्रशस्तं द्विधा-ज्ञानं नोज्ञानं च। तत्र ज्ञाने
१. गाथा ९६९-९७० स्थाने खंभा. अ. स. प्रतिषु चत्वारो गाथा उपलभ्यन्ते । अ. स. प्रत्यनुसारं जैन विश्वभारती प्रकाशन प्रकाशित लाडनु संस्करणे व्यवहारभाष्ये इत्थं गाथा चतुष्कं
भावे अपसत्थ-पसस्थगं च दुविधं तु होति णायव्वं । आविरय-पमायमेव य अपसत्थं होति दुविधं तु ॥ ९८३-१॥ णाणे णोणाणे या, होति पसत्थम्मि ताव दुविधं तु । णाणे खओवसमितं, खइयं च जहा मुणेयव्वं ॥ ९८३-२॥ णोणाणे विय ट्ठिी, चरणे एक्कक्कयं तिधा मुणेयव्वं । मीसं तधोवसमितं, खइयं च तधा मुणेयव्वं ॥ ९८३-३ ॥ णाणादिसुं तीसु वि, सट्ठाणे णत्थि खइय अतिचारो । उवसमिए वि दोसुं, दिट्ठी चरणे य सट्ठाणे ॥ ९८३-४॥
गाथा ९६९-९७३ निक्षेपाः साधर्मिकस्य
५१६ (A)
For Private and Personal Use Only