________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५९१ (A)|
यदि वा प्रबलबुभुक्षावेदनीयोदयतया कृतभक्त-पानप्रत्याख्यानतया न निर्वहेत्। न यावत्कथिकमनशनं प्रतिपालयितुं क्षम इति यावद्, असमाधिर्वा तस्मिन् गच्छे तस्य वर्तते ततोऽन्यत्र गते तस्मिन् यत्कर्त्तव्यं तत्करणीयम्, अन्यत्र नीत्वा यद्यदुचितं तत्तस्य करणीयमित्यर्थः । पश्चादनशनप्रत्याख्यानभङ्गविषयस्तस्य व्यवहारः प्रायश्चित्तं दातव्यम्। अथ स्वगच्छासमाधिमात्रेणान्यत्र गतस्ततः स मिथ्यादुष्कृतप्रदानमात्रेण शुद्ध इति ॥ ११५४।।
सूत्रम्- अट्ठजायं भिक्खुं गिलायमाणं नो कप्पइ तस्स गणावच्छेदियस्स निजूहित्तए, अगिलाए करणिज्जं वेयावडियं जाव रोगातंकातो विप्पमुक्के, ततो पच्छा अहालहुस्सगे नामं ववहारे पट्टवियव्वे सिया इति ॥ १७॥
अथास्य सूत्रस्य कः सम्बन्धः? उच्यतेवुत्तं हि उत्तमढे, पडियरणट्ठा व दुक्खरे दिक्खा। एत्तो य तस्समीवं, जड़ हीरइ अट्ठजायमतो ॥ ११५५ ॥
[बृ.क.भा. ६२८५] १. क्षमेत - वा. मो. पु. ॥
सूत्र १८
गाथा ११५२-११५६
अर्थजाते सामाचारी
५९१ (A)
For Private and Personal Use Only