________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
X
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५५४ (B)
लघुको व्यवहार: त्रिंशः त्रिंशद्दिवसपरिमाणः । एवं लघुतरकः पञ्चविंशतिदिनमानः, यथालघुस्वको विंशतिः विंशतिदिनमानः । एषा लघुकव्यवहारे त्रिविधे यथाक्रमं प्रायश्चित्तप्रतिपत्तिः। तथा लघुस्वको व्यवहारः पञ्चदश पञ्चदशदिवसप्रायश्चित्तपरिमाणः, एवं लघुस्वतरको दशदिवसमानः यथालघुस्वकः पञ्च दिवसानि पञ्चदिवसप्रायश्चित्तपरिमाणः । एषा लघुस्वकव्यवहारपक्षे प्रायश्चित्तपरिमाणप्रतिपत्तिः ॥१०५१॥ अथ कं व्यवहार केन तपसा पूरयति ? [इति] प्रतिपादनार्थमाह
गुरुगं च अट्ठमं खलु, गुरुगतरागं च होइ दसमं तु। अहगुरुग दुवालसगं, गुरुगपक्खम्मि पडिवत्ती ॥ १०५२ ॥
गाथा १०५०-१०५४ ग्नानऽऽलोचकं प्रति व्यवहारः
५५४ (B)
[बृ. क. भा. ६२३९] गुरुकं व्यवहारं नाम मासपरिमाणम् अष्टमं कुर्वन् पूरयति। किमुक्तं भवति ?- गुरुकं
For Private and Personal Use Only