________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ७५ (B)
निट्ठहणेत्ति निष्ठीवनादौ, इह साधवो द्विधा-गच्छगता गच्छनिर्गताश्च। तत्र ये गच्छनिर्गतास्ते नियमादनिष्ठीवका औपग्राहिकमल्लकाद्युपकरणाऽसम्भवात्। गच्छगता अपि ये विधिना निष्ठीवन्ति, ते अनिष्ठीवका एव, न प्रायश्चित्तविषयाः। अविधिना खेल-मल्लके निष्ठीवने दण्डक इव सप्त भङ्गाः, दण्डक इवैव च आद्येषु प्रत्येकं लघुमासः, उत्तरेषु त्रिषु प्रत्येक रात्रिन्दिवपञ्चकं, सप्तमभङ्गवर्त्तिनस्त्वनिष्ठीवका एव, विधिना निष्ठीवनात्। उपरितनेष्वपि च त्रिषु भङ्गेषु यदि भूमौ 'निष्ठीव्यति तदा मासलघु, यच्च निष्ठीवने प्राणिनां परितापनाद्युपजायते तन्निष्पन्नं च तस्य प्रायश्चित्तम्, आदिशब्दात् कण्डूयनपरिग्रहः, कण्ड्यनेऽपि हि दण्डक इव सप्तभङ्गकं, तथैव प्रायश्चित्तविधिः । तथा वस्त्रादिकमातपात छायायां छायाया वा आतपे संक्रामयन् न प्रत्युपेक्षते न प्रमार्जयतीत्यादयः पूर्ववत् सप्तभङ्गाः, पूर्ववदेव चाऽऽद्येषु षट्सु भङ्गेषु प्रायश्चित्तविधिः, सप्तमे तु भङ्गे शुद्धः। थंडिल्लेत्यादि, मार्गे व्रजन् अस्थण्डिलात् स्थण्डिले स्थण्डिलाद्वा अस्थण्डिले, तथा कृष्णभूमात् प्रदेशात् नीलभूमौ, नीलभूमेर्वा कृष्णभूमप्रदेशे, एवं शेषवर्णेष्वपि प्रत्येकं योजनीयम्। तथा अध्वनो ग्रामे ग्रामप्रवेशे ग्रामाद्वा अध्वनि संक्रामन् पादौ न प्रत्युपेक्षते न प्रमार्जयतीत्यादयो दण्डक इव प्रत्येकं सप्त भङ्गाः, दण्डक इव च प्रत्येकमायेषु षट्सु
गाथा १२४-१२६ कायोत्सर्गस्वरूपादि
७५ (B)
१. निष्ठीवति - वा. पु. मु० ॥
For Private And Personal Use Only