________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ५३ (A)
तं पुण अणुच्चसई, वोछिण्णं 'मियं पभासए मउयं । मम्मेसु अदूमंतो, सिया व परियागवयणेणं ॥ ७२ ॥
तद् इहलोकहितं परलोकहितं वा पुनर्भाषते अनुच्चशब्दं न विद्यते उच्चः शब्दः स्वरो यस्य तत्तथा तत्। व्यवच्छिन्नं विभक्तममिलिताक्षरमित्यर्थः । मितं परिमितं प्रभूतार्थसंग्राहकं | स्तोकाक्षरमित्यर्थः। तथा मृदुकं कोमलं श्रोत्र-मनसां प्रहलादकारि, इत्थम्भूतमपि मर्मानुवेधितया विपाकदारुणं स्याद्, अत आह- मर्मसु अदूमयन् माण्यविध्यन् इत्यर्थः। स्याद् वा तथाविधं कञ्चन शिक्षणीयमधिकृत्य परुषस्य मानुवेधकस्य वक्ता परिपाकवचनेन अन्याऽपदेशेन, यथा-दोषाः स्त्रीसेवादयः इह परत्र चाऽकल्याणकारिणः यथा-अमुकस्य, तस्मात् कुलोत्पन्नेन शीलप्रमुखेषु गुणेष्वादरः कर्त्तव्यः । एष मितभाषी ॥ ७२ ॥ साम्प्रतमपरुषभाषित्वव्याख्यानार्थमाह
तंपि य अफरुस-मउयं, हिययग्गाहि सुपेसलं भणइ । नेहमिव उग्गिरंतो, नयण-मुंहेहिं च वियसंतो ॥ ७३ ॥
गाथा ७०-७४ वचनविनयस्वरुपम्
५३ (A)
१. मितं पभासए - जेभा० खंभा० ॥ २. विभक्तम् - वा. मो० पु० ॥ ३. मुधेहिं - वा. मो० पु० ॥
For Private And Personal Use Only