________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कसूची नखरदनिकादिर्जघन्यः, मध्यमो दंडक पंचविध उच्चारप्रश्रवणखेलमल्लकादिरूपः आर्यिकाणामधिको चारकः उत्कृटोऽक्षाः संस्तारक एकांगिका इतरो वा, द्वितीयपदे पुस्तकपंचकं फलकं च उक्तं च अक्खासंथारो वा दुविहो एगंगिको व इयरो वा बिइय पय पोत्थपणगं फलगं तह होइ उक्कोसो ॥१॥ तत्रोत्कृष्टमुपधिं यदि यथाकालं न प्रत्युपेक्षते चतुर्मासलघु मध्यमं यदि न प्रत्युपेक्षते तदा मासगुरु जघन्यं न प्रत्युपेक्षते पंचरात्रिदिवानि; दोषैः प्रत्युपेक्षते मासलघु पोसहिय तवे य तहा इति पोषं दधाति इति पोषधं अष्टमी पाक्षिकादि, पोषधे भवं पौषधि तच्च तत् तपश्चर्या पौषधिकतपस्तस्मिन्नक्रियमाणे इति सामर्थ्यात् गम्यते, सामान्यतो मासनिष्पन्न प्रायश्चित्तमिति योजना, तद्यथा अष्टम्यां चतुर्थं न करोति मासलघु पाक्षिके न चतुर्थ करोति मासगुरु चतुर्मासके षष्ठस्याकरणे चतुसिलघु सांवत्सरिके अष्टमं न करोति चतुर्मासगुरु, तथा एतेष्वेव अष्टमीपाक्षिकादिषु चैत्यानां जिनबिंद्यानां च शब्दात् ये अन्यस्यां वसती सुसाधवस्तेपामप्यवंदने मासलघु तथा ये चैत्यभवनस्थिता वैकालिकं प्रतिक्रम्य अकृते आवश्यके प्रभाते च कृते आवश्यके यदि चैत्यानि न वंदंते तेषामपि मासलघु उक्तं चास्यैव व्यवहारस्य चूर्णौ एएसु चेव अट्ठमीमादीसु चेइयाई साहुणो वाजे अमाए वसहीए ठिया ते न वदंति मासलघु जइचेइयघरे ठिया वेयालियं कालं पडिकंता अकए आवस्सए गोसे य कए आवस्सए चेइए न वदंति तो मासलहु इति, सांप्रतमेनामेव गाथां व्याचिख्यासुः प्रथमतः सज्झायस्स अकरणे इत्येतत् व्याख्यानयति ॥ छ ।। सुतथ्थपोरिसीणं अकरणे मासोउ होइ गुरुलहगो, चाउकालं पोरिसि उवायणं तस्स चउलहगा ॥भा०१३१
सूत्रार्थपौरुष्योः सूत्रपौरुष्याः अर्थपौरुष्या इत्यर्थः अकरणं यथाक्रमं गुरुमासो लघुमासः, अर्थपौरुषी हि प्रज्ञादिवि
For Private and Personal Use Only