________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
श्री व्यवहारसूत्रस्य
मानता सा द्रव्यरूपा प्रतिपदणा, यस्तु जीवस्य तथा तथा प्रतिषेवकत्वपरिणामः, सा भावरूपा प्रतिषेवणा सैव चेह ग्राह्या, जीवपरिणामानुरूपतः प्रायश्चित्तविधिप्रवृत्तेः, तथा चाह पडिसेवणा उ भावो प्रतिषेवणा नाम तुरेवकारार्थो मिन्नक्रमश्च, भाव एव जीवस्याध्यवसाय एव नान्या. स च भावो द्विधा कुशलोऽकुशलच, तत्र कृशलो ज्ञानादिरूपोऽकुशलोविरत्यादिरूपः, तत्र या कुशलेन परिणामेन बाह्यवस्तुप्रतिसेवना सा कल्पः पदैकदेशे पदसमुदायोपचारात् कल्प्यः प्रतिषेवणा कल्पिका इति भावः, या पुनरकुशलपरिणामतः प्रतिषेवणा सा दर्पः, दर्प प्रतिषेत्रणा दार्पिका इत्यर्थः, आह किमेषां त्रयाणामपि परस्परमेकत्वं नानात्वं, वा उच्पते, उभयमपि, कथमित्यत आह नाणी न विणा नाणं नेयं पुणते सणन मन्नं च. इय दोगामलाण सइयं पुणलेवियध्वेण ॥भा ४०॥
यथा ज्ञानं विना अंतरेण ज्ञानी न भवति, ज्ञानपरिणामपरिणततयैव ज्ञानित्यव्यपदेशभावादिति तयोर्ज्ञानज्ञानिनोरेकत्वं, इह दोण्डमनाणतंति इति एवं झानिज्ञानगतेन प्रकारेण द्वयोः प्रतिसेवकप्रतिसेवनयोरनानात्वमेकत्वं, प्रतिषवनामंतरेण प्रतिषेवकस्याप्यभावात् , प्रतिसेवनापरिणामपरिणतावेच प्रतिसेवकत्वव्यपदेशप्रवृत्तेः, णेयं पुणं तेसणण्ण मन्नं च इति, पुनःशब्दो विशेषद्योतने स चामुं विशेष द्योतयति, न ज्ञानज्ञानिनोः परस्परमत्रिज्ञयेनापि समय एकत्वं किंतु ज्ञेयं तर्योज्ञानज्ञानिनोरनन्यत् अन्यच्च, किमुक्तं भवति ज्ञानिनोज्ञानाच्च ज्ञेयं किंचिदन्यत् किंचिदनन्यत् तथाहि यदा ज्ञानी आत्मालंबनज्ञानपरिणामपरिणतस्तदा ज्ञानज्ञानिनोरेकत्वं यदात्वात्मव्यतिरिक्तघटाद्यालंबनज्ञानपरिणामपरिणतस्तदा (न्यत्वमात्मनो घटादीनामन्यत्वात् ज्ञानमपि यदाभिनिवोधिकादिस्वरूपालंबनं तदा ज्ञानज्ञेययोरेकत्वं, यदा तु स्वव्यतिरिक्तघटाद्या
For Private and Personal Use Only