________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिदोषासेवनया नातिक्रमेत् , अत्र पर आह,मूलव्वयाइयारा जयाऽसुखाचरणभंसगा होति ॥ उत्तरगुणातियारा, जिणसासणे किं पडिकट्टा ॥२८॥
यदि मूलगुणातिचारा अशुद्धा इति कृत्वा चरणभ्रंशका भवंति, ततः साधूनामुत्तरगुणातिचाराश्चरणस्यानंशकाः प्राप्ता मूलगुणातिचाराणां चरणभ्रंशकतया प्रतिपन्नत्वात् , ततः किमुत्तरगुणा जिनशासने प्रतिक्रुष्टाः न युक्तस्तेषां प्रतिषेधो दोषाकारित्वादिति भावः उत्तरगुणातियारा जयसुद्धा चरणभंसया होंति, मूलव्वयातियारा, जिणसासणे किं पडिकुट्टा? ॥२८३॥
यदि उत्तरगुणातिचारा अशुद्धा इति कृत्वा चरण भ्रंशका भवंति, ततः मूलव्रतातिचारश्चिरणभ्रंशकान प्राप्नुवंति, उत्तरगुणातिचाराणां चरणभ्रंशकतया प्रतिपन्नत्वात् तथाच सति मूलव्रतातिचाराः किं जिनशासने प्रतिक्रुष्टाः दोषाभावात् अत्र सूरिराह ॥ मूलगुणउत्तरगुणा जम्हा भंसंति चरणसेढितो ॥ तम्हा जिणेहि दोमिवि, पडिकुट्टा सव्वसाहणं ॥२८४॥ ___ यस्मात् मूलगुणा उत्तरगुणा वा पृथक् पृथक् युगपद् वा अतिचर्यमाणाश्चरणश्रेणीसंयमश्रेणीतो भंशयति साधून ततो जिनैः सर्वयोरपि मूलगुणातिचारा उत्तरगुणातिचाराश्च प्रतिक्रुष्टाः अन्यच्च मूलगुणेष्वतिचर्यमाणेषु मूलगुणा स्तावद्धता एव किंतूत्तरगुणा अपि हन्यते, उत्तरगुणेष्वतिचर्यमाणेषत्तरगुणास्तावद्धता एव, किंतु मूलगुणा अपि हन्यते तथा चात्र दृष्टांतमाह। अग्गग्घातो हणे मूलं, मूलघातोउ श्रग्गयं ॥ तम्हा खलु मूलगुणान संति न य उत्तरगुणा य॥२८५॥
For Private and Personal Use Only