________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
वधिकमेव, यतोऽस्माकमेतावदेव भगवता वर्धमानस्वामिना तपोहं प्रायश्चित्तं व्यवस्थापितं, एतच्चैवमुक्तप्रकारेण स्थापनारोपणाप्रकारेण लक्षणेन दातव्यं, अविकोविदस्य अपरिणामकस्य अतिपरिणामकस्य वा अगीतार्थस्य च, इयमत्र भावना, सर्वस्याप्येष नियमो यदुत सुबहुष्वपि पएमासेभ्यः परतो मासेषु प्रतिसेवितेषु प्रायश्चित्तं पएमासावधिकमेव दातव्यं, न ततोधिकमपि, केवलमेतावास्तु विशेषो योऽपरिणामको अतिपरिणामिको वा तस्यागीतार्थस्यस्थापनारोपणामकारण सर्वान् मासान् । सफलीकृत्य पाएमासिकं तपो दीयते, यस्तु विकोविदो गीतार्थोऽगीतार्थो वा परिणामकस्तस्मिन्नन्यथा भवति प्रायश्चित्तदानं, किमुक्तं भवति, विकोविदस्य पएमासाना परतः सुबहुष्वपि मासेषु प्रतिसेवितेषु शेषं समस्तं त्यक्त्वा पण्मासा दीयंते, न पुनरस्ति तत्र स्थापनारोपणाप्रकार इति, आह परो, यदि भगवता तपोर्हे प्रायश्चित्ते उत्कर्षतः षण्मासा दृष्टास्ततः षण्मासातिरितमासादिप्रतिसेवने छेदादि कस्मान्नदीयते, येन शेषं समस्तमपि त्यज्यते इति तत्राह ।। सुबहहिं विमासेहिं छेदो मूलं तहिं न दायव्वं । अविकोवियस्स एवं विकोविए अण्णहा होंति ॥२७९॥
यो नामागीतार्थोऽपरिणामकोऽतिपरिणामिको वा यो वा छेदादिकं नश्रद्दधाति तस्य एवमवसातव्यं, षण्मासानामुपरि | सुबहुभिरपि मासैः प्रतिसेवितैः छेदो मूलं वा न दातव्यमपरिणामादिस्वभावतया तस्य छेदमूलानर्हत्वात्, किंतुस्थापनारोपणाप्रकारण सा दीयंते; विकोविद गीतार्थेऽगीतार्थे परिणामके तदेव षण्मासदानमन्यथा भवति, स्थापनारोपणाप्रकारमंतरेणापि एवमेव दीयते पण्मासा इति भावः, अयमत्र संप्रदायः, अविकोविदा उक्तस्वरूपा निःकारणं प्रतिसेवनया यतनया प्रतिसेवनया वा अभीक्ष्णप्रतिसेवनया वा यदिवा कथमपि छेदमूलादिकं प्राप्तास्तथापि तेषां छेदो मूलं वा न देयं, किंतु
For Private and Personal Use Only