________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
तत् यत् शक्नोति वोढुं तद्दीयते, अथ न शक्नोति, तर्हि न किंचिद्दीयते, तथा चाह संकप्पेत्यादि संकल्पितगुरुदंड आचार्यपदे स्थापितः सन् एवमेव उच्यते, यद्वा शक्नोति वोढुं तद्दीयते इति, एवमाचार्यमधिकृत्य दोषा एकत्वमापन्नाः अत्राह चोदकः साधूक्तमिदं दोपैकत्वकारणं, किमनया एतावत्प्रमाणया स्थापनारोपणाभ्यामाकृष्टिविकृष्टया इतः पंच दिवसा गृहीता, इतो दशेत्यादिरूपया गुरुणा ह्यागममनुसृत्य यत्प्रायश्चित्तमाभवति, तत्स्थापनारोपणाभ्यामंतरेणैव दीयतामिदं ते प्रायश्चित्तमिति, अत्र मूरिराहचोयगपुरिसा दविहा, गीयागीयपरिणामि इयरे य । दोण्हवि पच्चयकरणं सव्वे सफला कया मासा ॥२७२ ___चोदकपुरुषा द्विविधास्तद्यथा, गीयागीयत्ति गीतार्था अगीतार्थाश्च, अगीतार्था द्विविधाः परिणामिनः, इतरे च. इतरे नाम | अपरिणामा अतिपरिणामाश्च तत्र गीतार्थानामपि च परिणामिकानां परिहारस्थानमापन्नानां यत् दातव्यं, तत् स्थापनारो-12 पणाभ्यामाकृष्टिविकृष्ट्या विना दीयते, अत्र दृष्टांतो वणिक् ।। एगो वाणियो तस्स वीसं भंडीतो एकजातीयभंडभरियाओ सव्वा तो समभरातो तस्स गच्छतो सुकठाणेसुं कियतो उवठितो भणइ, सुकं देहि, वणिओ भणइ, किं दायव्वं, सुंकिओ भणइ, वीसतिमो भागो, तहेव चणिएण सुंकिएण य परिच्छिता मा ओयारणापब्बारोहेसु विक्खेवो हवउत्ति एका भंडी सुंके दिन्ना, एवं सव्वेसि गीयत्थाणमगीयत्थाण पारिणामगाणं विणा आकढिविगढिए पायच्छित्तं दिजइ, जे उण अगीयत्था अपरिणामगा अतिपरिणामगा य ते जइ छण्डं मासाणं परेणं आवणा, तेसि दोण्डं पच्चयकरणहा सम्बे मासा ठवणारोवणविहाणेण सफलीकाउं दिअंति, तथा चाह दोण्हवीत्यादि द्वयानामपि अपरिणामकानामतिपरिणामिकानां च प्रत्ययकारणं स्यात, इति
For Private and Personal Use Only