________________
Shri Mahavir Jain Aradhana Kendra
********/CK
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बहवो
मुक्ता कस्मै समर्पिता वा न जानामि, तथा भाजनमपि कांस्यभाजनमपि ते तव संबंधी यत्र भवान् भुंक्ते हस्ताद् पतितं सत् मनं, तथा पटोपि ते तव संबंधी नष्टो न दृश्यते, केनापि हृत इति भावः, एवं लोकोत्तरेपि एकनिषद्यायामेकालोचनायामित्यादि चतुर्भग्याममायाविना अनेकेष्वपराधपदेषु दंड एको गुरुतरको दीयते, अथवा अत्रैवालोचनाविषयेऽयमन्यो दृष्टांतःगासु चोरिवासु, मारणदंडो न सेसया दंडा । एवमणेगपएसुवि एक्को दंडो न उ विरुद्ध ॥२६९ ॥ एगो चोरो तेण च बहुयाओ चोरियाओ कयाओ तं जहा, कस्सड़ भाणं हरियं, कस्सह पडओ, कस्सर हिरवं कस्सइ रूप्पं, अष्मया तेण राउले खत्तं खणियं रयणा हिया दिट्ठो, आरक्खगेहिं गहितो, रमो उवठवितो, तस्समयं च उवठिया भांति, अम्हवि एएण हडं, ततो रथा रयणहरिति काउं तस्स मारणदंडो एक्को आणतो, सेसचोरिया दंडा तत्थेव पविट्ठा तथा चाह, अनेकासु चोरिकासु रत्नचोरिकानिमित्तं तस्यैको मारणदंड: प्रयुक्तो, न शेषचोरिका दंडास्तेषां तत्रैव प्रविष्टत्वात् एवं लोकोत्तरेप्यनेकपदेषु गुरुकैकपदनिमित्त एको दंडोऽविरुद्धः, शेषदंडानां तत्रैव प्रवेशात्, तदेवमालोचनां प्रत्येकत्वं दोषाणामुपपादितं, सांप्रतं दुर्बलं प्रतीत भाव्यते, तत्र भंडी दृष्टांतस्तत्रापि भंगचतुष्टयं तद्यथा भंडी बलिका, बलीवर्दा बलिका, १ भंडी बलिका वलीवर्द्धा दुर्बला २ मंडी दुर्बला बलीवर्द्धा दुर्बलिकाः ३ मंडी दुर्बला बलीवर्द्धाव दुर्बलकाः ४ तत्र प्रथमे भंगे वाह्यं परिपूर्णमारोप्यते, द्वितीयभंगे यावत् बलीवर्द्धा आक्रष्टुं शक्नुवंति तावदारोप्यते, तृतीयभंगे यावता आरोपितेन भंडी न भज्यते, तावदारोझते, चरमभंगे यावन्मात्रेण न भंडी भंगमुपयाति, यावच्चबलीवर्द्धा आक्रमलं तावदारुह्यते, एप दृष्टांतोऽयमुपनयः
For Private and Personal Use Only