________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकेणेक्के छेजइ, एक्केणपणेगऽणेगहिं एक्को । णेगेहिंपि य णेगे, पडिसेवा एव मासेहिं ।। २५६ ॥
क्वचित् एकेन घृतकुटेन एको वातादिको रोगः छिद्यते. एष प्रथमो भंगः क्वचिदेकेनघृतकुटेन अनेके त्रयोपि वातादयो दोषाः छिद्यते, एष द्वितीयः तथा क्वचिदनेकैघृतकुटेरेकोऽत्यंतमवगाढो रोगो वातादिक छेदमुपयाति एष तृतीयः, क्वचिदनकघेतकुटरनेके वातादयो दोषा उपशाम्यंति, एष चतुर्थो भगः, एवं प्रतिसेवाप्येकानेकमासविषया चतुर्थभंगिकया एकानेकर्मासैः शुध्यतीति घृतकुटदृष्टांतः उपलक्षणं, तेन सामान्यतोपि औषधदृष्टांतोपि द्रष्टव्यः, तत्रापि चतुभंगिका तामेवाह ।। एक्कोसहेण छिजंति केवि कुवियाओ तिमि वायादी। बहुएहिं छिज्जती, बहुए एक्केकतो वावि ॥ २६० ॥
एकेनौषधेन तथाविधन केनचित् वातादयस्त्रयोपिकुपिता छाते, उपशमं नीयते इति भावः एष हि द्वितीयो भंगः, तथा बहुभिरोषधैर्बहवो वातादयो रोगाश्छिद्यते, एष चतुर्थो भंगः, तथा एक्ककतो वावित्ति एकेनौषधेनैको वातादिको रोगश्छेदमु पयाति, एष प्रथमो भगः, भंगत्रयग्रहणाच्चतुर्थोपि भंगः सूचितो द्रष्टव्यः, स चायमनेकैरोषधैरेको वातादिको रोगो उत्पन्नः अवगाढः छिद्यते, एप तृतीयो भंगः ।। इयमत्र भावना यथा विभंगज्ञानिनः सर्वरोगाणां निदानमेकानेकौषधसामर्थ्य चावबुध्यमाना उपसंपन्नानां रोगिणां घृताद्यौषधगणं प्रयुजते, तेन च प्रयुज्यमानेन घृतकुटेन औषधेन वा कदाचिदेकेनैको रोगउपशमं नीयते, कदाचिदेकेन अनेके कदाचिदनकरेकः कदाचिदनेकैरनेक एवं भगवंतोपि जिनाः केवलिनो मासा, रागादिमिरासेवितो मास इत्ययमवश्यं मासेन शुध्यतीति जानानाः तस्मै एकं मासं प्रयच्छंति, एष प्रथमो भगः, तथा यद्यपि बहवो
For Private and Personal Use Only