________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रिंशत्स्थापना तथाहि पंचदशदिनारोपणा दशभिर्गुणिता जातं पंचाशं शतं, त्रिंशत् स्थापनादिवसाः प्रक्षिप्ता जातमशीतं
शतं ।। एवं पंचचत्वारिंशद्दिने स्थापनापदे नवभिः, षष्ठिदिनेऽष्टभिः, पंचसप्ततिदिने सप्तभिर्नवतिदिने षड्भिः, पंचोत्तरशतदिने | पंचभिः, विंशत्युत्तरशतदिने चतुर्भिः, पंचत्रिंशदुत्तरशतदिने त्रिभिः पंचाशशतदिने द्वाभ्यां षष्ठिशतदिने एकेन गुणने, समं षण्मासदिवसपरिमाणं भवति, पंचचत्वारिंशदादिषु स्थापनापदेषु पाचिक्यारोपणा कृत्स्ना प्रतिपत्तच्या, तथा विशिकायां आरोपणायां विंशतिदिने स्थापनापदेऽष्टभिः चत्वारिंशदिने सप्तभिः षष्ठिदिने षड्भिरशीतिदिने पंचभिः, शतदिने चतुर्भिः, विंशतिशतदिने त्रिभिः, चत्वारिंशशतदिने द्वाभ्यां, षष्ठिदिनशतदिने एकेन समं षण्मासदिवसपरिमाणं भवतीति, विंशिकाप्यारोपणा विशिकादिषु स्थापनापदेषु कृत्स्नेत्यवसेया ॥ एवं शेषा आरोपणा गुणकारैर्विचारयितव्या इति, एतदेव सुव्यक्ततरमाह ॥ जइहिं गुणा भागेवण ठवणाजुत्ता हवंति छम्मासा। तावइयारुवणाश्रो हवंति सरिसा भिलावाओ ॥२४॥
यतिभिर्यावद्भिर्गुणकारैर्गुण्यते स, गुणा गुणिता पारोपणा तदनंतरं स्थापनायुक्ता स्थापनादिवसयुक्ताः षण्मासा भवंति, तावत्यो गुणकारसंख्यास्तुल्यास्ता प्रारोपणाः कृत्स्ना इति गम्यते प्रतिपत्तव्याः कथंभूतास्तास्तावत्यः कृत्स्नारोपणा इत्याह, सदृशामिलापा एकाभिलापा इति भावः, यथा पाक्षिकी आरोपणा त्रिंशदिनादिषु स्थापनादिषु दशादिभिर्गुणकारैगुणितास्तदनंतरं च स्थापनादिवसयुताः पणमासान् पूरयतीति दश कृत्स्ना आरोपणाः सदृशामिलापा एवमन्या अपि तैस्तैर्गुणकारस्तावत् संख्याकैस्तेषु तेषु स्थापनापदेषुगुणितास्तदनंतरं तत्र स्थापनादिवसयुक्ताः पण्मासपूरिकास्तावत्संख्याकाः
For Private and Personal Use Only