________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य पीठिकानंतरः।
॥८२॥
शतिकायां स्थापनायामेका पाक्षिक्यारोपणा कृत्स्ना एवमेताश्चत्वारिंशत् त्रिंशदुत्कृष्टाः सर्वा मिलिताः सप्ततिः कृत्स्ना
द्वितीयो आगेपणा शेषाः पंचनवतिः त्रिंशतसंख्या अकृत्स्ना आरोपणाः, एवं शेषेष्वपि त्रिषु स्थापनारोपणास्थानेषु कृत्स्ना
विभाग। रोपणानां परिमाणमुपयुज्य परिभावनीयमिति, अतः परमेतासां सर्वासामपि स्थापनारोपणानां स्वरूपं येन लक्ष्यते, तद्विमणिपुरिदमाह,सव्वासिं ठरणाणं एत्तो सामन्नलक्खणं वोच्छं । मासग्गे जोसम्गे हीणाहीणे य गहणेय ॥२३॥
चतुर्वपि स्थापनारोपणास्थानेषु याः स्थापना आरोपणाश्चान्योऽन्यानुवेधतो भवंति, । तासां सर्वासामपि स्थापनानामारोपणानां च इत उर्ध्व सामान्येन सकलव्यापितया लक्षणं लक्ष्यते, येन तासां तल्लक्षणमुक्तानुक्तस्वरूपं वक्ष्ये, केत्याह मासाग्रे प्रतिसेवितसंचयमासानां परिमाणे तथा प्रतिसेवितमासानयननिमित्तमेवारोपणादिवसैर्भागे हियमाणे कियति प्रक्षिप्ते । शुद्धं भागं दास्यतीत्येवं झोपाये झोपपरिमाणे लक्षणं वक्तव्यं, तथा हीनाहीने च ग्रहणे च हीनग्रहणं नाम विषमग्रहणं अहीनग्रहणं समग्रग्रहणमेतच्च यथासंचयमासेभ्यो भवति, तथा लक्षणं वक्तव्यं, तत्र मासपरिमाणविषयं लक्षणमभिधित्सुरिदं पूर्वोक्तमेव तावदाहः--- | जइमि भरे थारोवणा तति भागं करे तिपंचगुणं । सेसं पंवहिं गुणए ठवणादिणजुया उ छम्मासा ॥२३७॥||
इयमर्थत प्रागेव व्याख्याता परमन्यथा कियान् शब्दसंदर्भ इति भूयापि व्याख्यायते, संचयमासेभ्यः स्थापनामासेषु शुद्धेषु यच्छेषमवतिष्ठते, तत् जइमित्ति यतिमासा भवन्यारोपणा, किमुक्तं भवति, यतिभिर्मासैनिष्पन्ना आरोपणा ततिमार्ग ॥ २॥
For Private and Personal Use Only