SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देशपंचदशषोडशसप्तदशाष्टादरीकोनविंशतिमेम्वष्टसूद्देशकेषु उद्घातिता चतुर्मासिका उक्तास्तेषामेकत्र संक्षिप्तानां सप्तशतानि चतुर्विंशानि ७२ । उद्घातितानामनुद्घातितानां सर्वेषां चतुर्मासानामेकत्र मीलितानां भवंति त्रयोदशशतानि अष्टषष्ठानि १३६८ ॥ तेण परमित्यादि ततः परं सर्वेषां मासिकानां चातुर्मासिकानां च यः समासो मीलनं तेन संक्षेपं सर्वसंख्या संग्रह वक्ष्ये, प्रतिज्ञानमेव निर्वाहयति ॥ नवयसया यसहस्सं हागाणं पडिवत्तियो होति। वावरणा ठाणाई सत्तहिं आरोवणा कसिणा।।२२७।। स्थानानां मासादिप्रायश्चित्तस्थानानां प्रतिपत्तयः प्रतिपादनानि सहस्रं नवशतानि द्वापंचाशच्च स्थानानि १६५२ ॥ तथाहि भवंति मर्वाणि प्रागुक्तानि मासादिप्रायश्चित्तस्थानान्येकत्र मीलितान्येतावंतीति सप्ततिः पुनरारोपणा कृत्स्नाऽथ कोऽस्य मूत्रस्याभिसंबंध ? उच्यते. नन्वेष एवं संबंधः कियंति प्रायश्चित्तानि सिद्धानि कियत् पश्चाऽरोपणा जघन्या अजघन्योस्कृष्टास्तथा कृत्स्ना अकृत्स्ना च सिद्धास्तत्र प्रथम स्थापनारोपणास्थाने एका जघन्या त्रिंशत् उत्कृष्टा एकैकस्यां स्थापनायां आरोपणाभिः सह संवेधे एकैकस्या उत्कृष्टाया लभ्यमानत्वात अजघन्योत्कृष्टानां चत्वारिंशतानि चतुर्विंशदधिकानि ४३४ ॥ द्वितीये स्थापनारोपणास्थाने एका जघन्या त्रयस्त्रिंशत उत्कृष्टा अजघन्योत्कृष्टानां पंचशतानि सप्तर्विशानि ५२७ ॥ तृतीये स्थापनारोपणास्थाने एका जघन्या पंचत्रिंशत् उत्कृष्टाजघन्योत्कृष्टा पंचशतानि चतुर्णवतानि ५३४ ।। चतुर्थे स्थापनारोपणास्थाने एका जघन्या एकोनाशीतं शतमुत्कृष्टानां पंचदश सहस्राणि नवशतानि त्रिंशानि १५९३० ॥ अजघन्योत्कृष्टानां तथा प्रथमे स्थापनारोपणास्थाने सप्ततिरारोपणाः कृत्स्नाः कृत्स्नभागहारिण्य इत्यर्थः, झोषविरहिता इति यावत् , ताश्चेमाः For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy