________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभागः।
श्री म्यवहारसूत्रस्य पीठिकानंतरः।
मौसो भवति। संचयमामा एकादश प्रत्यक्ता जाता दिनानि, कर
॥६६॥
दिवसेहिं जइहिं मासो निप्फन्नो हवई सव्व रूवाणं ॥
तइहिं गुणियाउ मासा, ठवणदिणदिणजुया उ छम्मासा ॥ १९२ ॥ सर्वासामारोपणानां यतिभिर्दिवसैर्मासो भवति, निष्पन्नस्ततिभिर्गुणितास्ते मासाः कर्तव्याः, पुनः स्थापनादिनयुक्तास्ततस्ते षण्मासा भवंति, यथा प्रथमायामारोपणायां त्रयोदश संचयमासास्तेभ्यः स्थापनामासौ द्वौ शोधितौ, स्थिताः पश्चादेकादश, अत्रारोपणायामको मासः, स च पंचदशभिर्दिनैर्निष्पन्न इति, ते एकादश पंचदशभिर्गुण्यंते, जात पंचषष्ठंशतं, ततो विंशतिदिवसाः स्थापनासत्काः प्रक्षिप्यते, जातं पंचाशीतं शतं पंचझोष इति ते त्यक्ता जाताः षण्मासाः आगतं द्वाभ्यां स्थापनीकृताभ्यां मासाभ्यां दश दश दिनानि गृहीतानि, शेषेभ्यस्त्वेकादशभ्यः पंचदश पंच दिनानि, केवलं तन्मध्यात्पंचझोषः कृतः, पंचदिनानि त्यक्तानीति भावः, झोषशन्दस्य तत्त्वतस्त्यागवाचित्वादत एव च यान्यमनि पंचदिनानि त्यक्तानि, तान्येव प्राक्राशिसमकरणार्थ प्रक्षिप्तानीति समकरणप्रक्षेपणीयो राशिझोषशब्देनोक्ताः, एवं सर्वत्र झोषभावना भावनीया, तथा विशिकायां स्थापनायां विंशिकायां चारोपणायामष्टादश किल संचयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितौ जाताः षोडश, अत्र विंशतिदिनारोपणा द्विमासेत्येकैको मासो दशभिर्दिननिष्पन्नस्ततस्ते षोडश दशभिर्गुण्यंते, जातं षष्टं शतं १६० ॥ ततः स्थापनादिवसा विंशतिः प्रतिप्यंते, जातमशीतं शतं आगतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश वासरा गृहीताः, शेषेभ्योपि षोडशेभ्यो मात्रतो दश दशेति तथा विंशिकायां स्थापनायां पंचविंशिकायां चारोपणायां त्रयोविंशतिः
For Private and Personal Use Only