________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथा अनेन यथावस्थितः सद्भावः कथितः, अथ विसदृशं, ततो जानाति करणपतिरेष प्रतिकुंच्य कथयति ततः स निर्भसंयति, किमिति राजकुलेपि समागतस्त्वं मृषा वदसीति पूर्व मायामृषा प्रत्ययं दंड्यते, पच्छववहारो इति पश्चाद् व्यवहारं कार्यते, व्यवहारोप यदि पराजितो भवति, ततो द्वितीयवेलं दंड्यते । एष दृष्टांतो, दार्शतिकयोजनामाह; इय इत्यादि इति एवमुक्तप्रकारेण लोकोचरेपि वारत्रयमालोचनादापनेन यदि कुंचितो भावो ज्ञातो भवति, ततस्तं कुंचितभावं पूर्वमाचार्यो निर्भयति । किमित्यालोचनायामप्युपस्थितो मायामृषा वदसि ततो दंडे इति प्रथमतो मायानिष्पन्नेन मासगुरुप्रायश्चित्तेन दंडयति, पश्चात् यदापन्नं मासिकं तेन द्वितीयवेलं दंडयति । ___ अथ वारत्रयमालोचनादापनेपि कथं श्रुतव्यवहारिणो मायामंतर्गतां लक्षयंते तत पाह। आगारेहिं सरेहिं य पुवावरवाहयाहियगिराहि; नाउं कुंचियभावं परोक्खनाणी ववहरति ।। १४०॥
प्राकाराः शरीरगता भावविशेषास्तत्र यः शुद्धस्तस्य सर्वेप्याकाराः संविग्नभावोपदर्शका भवंति, इतरस्य तु न तादृशाः। खरा अप्पालोचयतः शुद्धस्य विविक्ता विस्पृष्टा अक्षुभिताश्च निस्सरंति इतरस्य त्वव्यक्ता अविस्पष्टाः । तुभितगद्गदाश्च, तथा शुद्धस्य वाणी पूर्वापराव्याहता, इतरस्य तु पूर्वापरविसंवादिनी, तत् एवं परोक्षज्ञानिनः श्रुतव्यवहारिण आकारेः स्वरैः पूर्वापरव्याहताभिश्च गीर्भिस्तस्यालोचकस्य कुंचितभावं कुटिलभा ज्ञात्वा तथा व्यवहरंति, पूर्व मायाप्रत्ययेन प्रायश्चित्तदंडेन दंडयते, पश्चादपराधप्रत्ययेन प्रायश्चित्तदंडेनेति भावः ।
जे भिक्खू दोमासियं परिहारदाणं पडिसेवित्ता आलोएजा, अपलिउंचियं बालोएमाणस्स
For Private and Personal Use Only