________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतादृशमेकाक्यादिस्वरूपं गुरुमन्यं वा ग्लानादिकं व्युत्सृज्य परित्यज्य विशेषेण प्रवासोऽन्यत्र गमनं विप्रयासो भद्र तव | न कल्पते बहुगुणाधारो भवान् कथमीदृशं कृतवान् , तस्मात् अद्यापि प्रायश्चित्तं प्रतिपद्य, पश्चात् गच्छ, स च समागतस्तस्य
प्राक्तनस्याचार्यशिष्यो वा स्यात् प्रतीच्छको वा एवमागतं तमुपसंपद्यमानं योप्याचार्यः प्रतीच्छति, सोपि प्रायश्चित्तभाक् ततः * शिष्यप्रतीच्छकाचार्याणां प्रायश्चित्तं विवक्षुरिदमाह, सीसायरिए इत्यादि, शिष्ये आचार्य प्रतीच्छके च प्रायश्चित्तं विधीयते प्राय
श्चित्तदानविधिरुच्यते इति भावः, प्रतिज्ञातमेव निर्वाहयति ।। एगे गिलाणगे वा, तिगृहवि गुरुगाउ सीसमादीणं; सेसे सिस्से गुरुगा, पडिच्छलहुगा गुरूसरिसं ॥७९॥
एकस्मिन् एकाकिनि गुरौ ग्लाने वा तत्र गच्छे तिष्ठति यदि समागतः शिष्यप्रतीच्छको वा आचार्येण वा तथासमागतः सन् यदि प्रतीच्छितस्तदा शिष्यादीनां शिष्यप्रतीच्छकाचार्याणां त्रयाणामपि प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः, यः पुनरन्यः शेषोऽपरिणताल्पाधारस्थविरबहुरोगमंदधर्मपरिवारलक्षणः, तस्मिन् शेषे यदि समागतः शिष्यः ततस्तस्य प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः अथ प्रतीच्छकः समागतस्तर्हि तस्य लघुकाश्चत्वारो लघुमासाः गुरूसरिसमिति, गुरोरपि शिष्यप्रतीच्छकसदृशं प्रायश्चित्तं, किमुक्तं भवति यदि शिष्यं प्रतीछति ततः प्रायश्चित्तं चत्वारो गुरुमासाः, अथ प्रतीच्छकं तर्हि चत्वारो लघुका इति । | सीसपडिच्छे पाहुड,च्छेदो राइंदियाणि पंचेव । पायरियस्सवि गुरुगा, दोवेए पडिच्छमाणस्स ॥८॥
For Private and Personal Use Only