________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
.
.
मुच्छातिरित्तपंचमे; छट्टे लेवाडअगयसुंठादी; गुत्तिसमिईविवक्खाणामि गहणुत्तरगुणेसु भा०॥६०॥
___ चतुर्थमूलगुणापराधालोचनानंतरं पंचमे मूलगुणापराधे परिग्रहविषयभूते यत् उपकरणेषु मूर्छा कृता भवेत्, अइरित्तत्ति | | अतिरिक्तो वा उपधिः परिगृहीत एतदालोचयेत्. तदनंतरं षष्ठे मूलगुणापराधे गत्रिभोजने लेवाडित्ति लेपकदवयवः कथमपि पर्युषितो भवेत् । श्रगदं वा शुंठ्यादि किंचित् सन्निहितं परिभुक्तं भवेत् एवमादि आलोचयेत्, एवं क्रमेण मूलगुणापराधालोचनां दत्वा तदनंतरमुत्तरगुणेषु उत्तरगुणविषये गुप्ति समितिविपक्षाः कृताः । अनेषणीयग्रहणं वाकारि, किमुक्तं भवति गुप्तिषु कदाचिदगुप्तः स्यात्, समितिषु कदाचिदसमितोऽनेषणीयं वा भक्तं पानं वा गृहीतं स्यादित्यादि आलोचयेत् तथा । संतसिवि बलविरिए तवो वहाणे यजंन उजमियं एसा विहारवियडण, वोच्छं उवसंपणाणत्ताभा०६१।।
सत्यपि विद्यमानेपि बलं शरीरं प्राणः वीर्यमांतरी शक्तिर्यद्वशात् तपः कुर्वन् शरीरस्यातिकृशतायामपि न संयमयोगेषु सीदति बलं च वीर्य च बलवीर्य समाहारे द्वंद्वस्तस्मिन् तपसो द्विप्रभेदस्यापि उपधानं करणं, तपउपधानं तस्मिन् नोद्यतं, नोद्यमः कृतः एतदपि आलोचयेत् । एषा विहारविकटना विहारालोचना उपसंपदालोचनादि प्राय एवंरूपा, केवलं यन्नानात्वं तद् वक्ष्ये, तत्र प्रथमतः उपसंपदालोचनाया अपराधा लोचनायाश्च विहारलोचनया सह नानात्वं दर्शयति । एगमणेगा दिवसेसु होइ ओहे य पयविभाग य, उपसंपयावराहे, नायमनायं परिच्छति ॥भा०॥६२॥
उपसंपञ्चापराधश्च उपसंपदपराधस्तस्मिन् आलोचना इति प्रस्तावात् गम्यते उपसंपदालोचना अपराधालोचना चेत्यर्थः।
For Private and Personal Use Only