________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
श्री व्यवहारसूत्रस्य
विकलेंद्रियाएका परियाबणा एतेसिमित्याद्रयान् गाढं परितापयति नैतदपिजीत
दर्दरो मंडूकस्तदादिषु तत्प्रभृतिषु मकारालाक्षणिकः प्राकृतत्वात् तिर्यक्पंचेंद्रियेषुजीविताद्व्यपरोपितेवितिशेषः कल्याणक त्विति तुशब्दो विशेषणार्थः, स चैतत् विशिनष्टि, पंचकल्याणकं प्रायश्चित्तं, विगलिंदिएसु भत्तट्ठो इति विकलान्यसंपूर्णानि इंद्रियाणि येषां ते विकलेंद्रियाएकद्वित्रिचतुरिंद्रियास्तत्रव्याख्यानतो विशेषप्रतिपत्तिरित्येकेंद्रिया अनंतवनस्पतिकायिका दृष्टव्यास्तेषुअभक्तार्थ एव उपवासप्रायश्चितं, परियावणा एतेसिमित्यादि एतेषां दर्दुरादीनां परितापनायां यथासंख्यं चतुर्थाचाम्ले प्रायश्चित्तं भवतः, इयमत्रभावना यदि दर्दुरादीन् तिर्यपंचेंद्रियान् गाढं परितापयति ततोऽभक्तार्थप्रायश्चितमथ विकलेंद्रियान अनंतवनस्पतिकायिकप्रभृतीन् गाढं परितापयति, तत आचाम्ल, उपलक्षणमेतत् , तेनैतदपिजीतव्यवहारानुगतमवसेयं, यदि दर्दुरप्रभृतीन तिर्यपंचेंद्रियान् मनाक् संघट्टयति तत एकाशनकमथानागाढं परितापयति, तत आचाम्लं, तथा अनंत | वनस्पतिकायिकद्वित्रिचतुरिंद्रियाणां संघट्टने पूर्वार्द्धमेतेषामेवानागाढपरितापने एकाशनं, तथा पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां संघट्टने निर्विकृतिकमनागाढपरितापने पुरिमार्द्ध, आगाढपरितापने एकाशनं जीविताद्व्यपरोपणे आचाम्लमिति, इदमपि जीतमेवेति दर्शयति, अपरिमाकालाइसु, अपडिकंतस्स निव्वगइयंत, निव्वीतियं पुरिमड्ढो अंबिलखवणाय श्रावासे॥भा११॥
अपरिज्ञा-प्रत्याख्यानपरिज्ञाया अग्रहणं गृहीताया वा भंगः, ततः सूत्रे विभक्तिलोप भापत्वात् तथा कालादिषु अप्रतिक्रामतो अव्यावर्तमानस्य प्रायश्चित्तं निर्विकृतिक, किमुक्तं भवति, यदि नमस्कारपौरुष्यादिदिवसप्रत्याख्यानं वैकालिकं च पानाहारप्रत्याख्यानं न गृह्णाति, गृहीत्वा विराधयति, तथा स्वाध्यायं प्रस्थाप्य यदि कालस्य न प्रतिक्रामति, न कालप्रति
For Private and Personal Use Only