________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१. चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।।
ऋग्वेदे १.१६४.४५ महान् देवः शब्दः । महता देवेन नः साम्यं यथा स्याद् इत्यध्येयं व्याकरणम् ।
पतंजलि: (महाभाष्ये, प्रयोजनाधिकरणे)
प्राप्तरूपविभागाया यो वाचः परमो रसः । यत्तत्पुण्यतमं ज्योतिस्तस्य मार्गोऽयमांजसः ।। यदेकम्प्रक्रियाभेदैर्बहुधा प्रविभज्यते । तद् व्याकरणमागम्य परं ब्रह्माधिगम्यते ।। तस्माद्यः शब्दसंस्कार: सा सिद्धिः परमात्मनः । तस्य प्रवृत्तितत्त्वज्ञस्तद् ब्रह्मामृतमश्नुते ।।
भत हरिः (वाक्यपदीये १.१२,२२,१३२) ४. इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरासंसारान्न दीप्यते ।।
दण्डी (काव्यादर्शे १.४) शास्त्रीय-प्रकृति-प्रत्यय-व्युत्पादन-पूर्वकं विजातीय-तज्ज्ञानपूर्वक प्रयोगस्य चित्त-शुद्धि-द्वाराऽपवर्ग-सम्पादकत्वेन शास्त्रज्ञानस्यावश्यकत्वात् ।
नागेश भट्टः (वैयाकरणसिद्धान्तलघुमंजूषायाम् पृ० १५७३)
For Private and Personal Use Only