________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४११
समामादि-वृत्त्यर्थ न वा 'घनश्यामः', 'निष्कौशाम्बिः' 'गोरथः' इत्यादाव इवादि-प्रयोगापत्तिः । लक्षणयव उक्तार्थतया "उक्तार्थानाम् अप्रयोगः' इति न्यायेन 'इव' प्रादीनाम् अप्रयोगात् । नापि “विभाषा" (पा० २.१.११) इति सूत्रम् अावश्यकम् । लक्षणया 'राजसम्बन्ध्यभिन्नः" इति बुबोधयिषायां समासस्य, 'राज-सम्बन्धवान्' इति बुबोधयिपायां विग्रहस्य च प्रयोग-नियम-सम्भवात् । नापि "शक्तिः पङ कजशब्दवत्' (वैभूसा०, समासशक्तिनिर्णय, का० ४) इति 'पङ्कज'-शब्द-प्रतिद्वन्द्विता शक्ति-साधिका । तत्र अवयव-शक्तिम् अजानतोऽपि ततो बोधात् । न च शक्त्यग्रहे लक्षण या तस्माद् विशिष्टार्थप्रत्ययः सम्भवति । अत एव राजपदादि-शक्त्यग्रहे 'राजपुरुषः' इत्यादिषु न बोधः । न च “चित्रगुः' इत्यादौ लक्षणासम्भवेऽपि अषष्ठ्यर्थबहुव्रीहौ लक्षणाया असम्भवः, बहुव्युत्पत्ति-भञ्जनापत्तः, इति वाच्यम् । 'प्राप्तोदकः' इत्यादौ 'उदक'पदे एव लक्षणा-स्वीकारात् । पूर्वपदस्य यौगिकत्वेन तत्र लक्षणाया धातु-प्रत्यय-तदर्थ-ज्ञान-साध्यतया विलम्बितत्वात । प्रत्ययानां सन्निहित-पदार्थगत-स्वार्थ-बोधकत्वव्युत्पत्त्यनुरोधाच्च। घटादिपदे चातिरिक्ता शक्तिः कल्प्यमाना, प्रत्येक वर्णेषु बोधकत्वेऽपि, विशिष्टे कल्प्यते, विशिष्टस्यैव सङ्केतितत्वात । प्रकृते अत्यन्त-सन्निधानेन प्रत्ययान्वय-सौलभ्याय उत्तरपदे एव लक्षणा कल्प्यते इति विशेषः । स्वोकृतं च घटादिपदेष्वपि चरम-वर्णस्यैव वाचकत्वं मीमांसकम्म
न्यैः-इत्याहुः । ह० ---राजसम्बन्ध्यभिन्न पुरुष । वभूसा० [१० २८४] पंकजप्रतिवन्दी । वही-राजादिपद । यहां अगले वाक्य के 'चित्रगुः इत्यादी' पाठ की दृष्टि से 'राजपुरुष.' "चित्रगुः' इत्यादौ यह पाठ भधिक सुसंगत प्रतीत होता है । तुलना करो-वैभूमा० [१० २८५]-"अतएव राजादिपद-शक्त्यग्रहे 'राजपुरुषः' 'चित्रगुः' इत्यादौ न बोध:"।
५.
१०-प्रत्येक ।
For Private and Personal Use Only