________________
Acharva Shri Kailassagarsur Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
325
विशेषा०
'सामायिक' इति नपुंसकनिर्देशः, यथा वा मनुः, अक्षपाद इत्यादौ निर्देशकवशा निर्देशः, तथाऽत्रापि योषित-पुरुष नपुंसकलक्षणत्रिविधनिर्देशकवशात तदेव सामायिक स्त्री-पुं-नपुंसक भवति-- स्यादित्रिविधनिर्देशकवशात् नन्दसंहिता-मनु-कापिलीयादिवत त्रिवपि लिङ्गेषु सामायिकस्य निर्देशप्रवृत्तिः, यथा 'सामायिक स्त्री' इत्यादि ॥ १५०९॥ ।
अथ प्रकारान्तरेणापि लोकव्यवहारोपदर्शनेन प्रकृतं समर्थयन्नाह
जह वा घडाभिहाणं घडसद्दो देवदत्तसद्दो त्ति । उभयमविरुद्धमेवं सामइयं नेगमनयरस ॥ १५१० ॥ इयं च गाथा, 'यथा वा देवदत्तादिना घटादिशब्दे समुच्चारिते' इत्यादिना व्याख्यातैवेति ॥ १५१० ॥ "निदिई संगही य ववहारो' इत्येतद् व्याख्यातुमाह
अत्थाउ च्चिय वयणं लहइ सरूवंजओ पईवो व्व । तो संगह-ववहारा भणंति निददिवसगं तं ॥१५११॥
यतो यस्मादर्थादेव वाच्या घटादेः सकाशाद् वाचकं वचनं स्वरूपमात्मलाभ लभते, नान्यथा, यथा प्रदीपः प्रदीपो हि प्रकाश्यमेवार्थ प्रकाशयन् प्रदीपो भण्यते, यदि तु प्रकाश्यं वस्तु न स्यात् , तदा किमपेक्षोऽसौ प्रदीप: स्यात् ।। तस्मात् यथा प्रकाश्यादेवार्थात् प्रदीप आत्मलाभ लभते, तथा वाच्यादेवार्थाद् वचनमात्मस्वरूपमामोति । ततस्तस्मात संग्रह-व्यवहारनयो 'निर्दिश्यते' इति निर्दिछ वाच्यं वस्तु तदशगं तदधीनमेव तद् वचनं भणतो ब्रूतः । वाच्यं चेह सामायिकशब्दस्य सावधविरतिरूपस्तदभिधेयोऽर्थः । सच रूढितो नपुंसकतया प्रसिद्ध इति । अतः सामायिकस्य नपुंसकलिङ्गतामेव संग्रह-व्यवहारावभ्युपगच्छतः । अथवा, सामायिकवतां सत्त्वाना स्त्री-पुं-नपुंसकत्वात् तत्परिणामानन्यत्वेन च सामायिकार्थस्य स्च्यादिरूपत्वाद् वाच्यवशेन त्रिलिङ्गतापि सामायिकस्य संग्रह-व्यवहारनयमतेन द्रष्टव्येति ॥ १५११॥
प्रकारान्तरेणापि निर्दिष्टवशात् निर्देशं समर्थयन्नाहअहव निददिठ्ठत्थस्स पजओ चेव तं सधम्म व्व । तप्पच्चयकारणओ घडस्स रूवाइधम्म व्व ॥१५१२॥ , यथा वा घटाभिधानं घटशब्दो देवदत्तशब्द इति । उभयमविरुद्धमेवं सामायिक नैगमनयस्य ॥ १५१० ॥ ३ गाथा १५०५॥
भादेव वचनं लभते स्वरूपं यतः प्रदीप इव । ततः संग्रह-व्यवहारी भणतो निर्दिष्टवशगं तत् ॥ १५॥
४ अथवा निर्दिष्टार्थस्य पर्यय एवं तत् स्वधर्म इव । तत्प्रत्ययकारणतो घटस्य रूपादिधर्म इव ॥ १५ ॥ अथवा, तद् वचनं निर्दिष्टार्थस्य वाच्यवस्तुनः पर्याय एव, तत्मत्ययकारणत्वात्- वाच्यार्थप्रतीतिहेतुत्वात् , यथा तस्यैव निर्देशस्य घटादेरन्ये संस्थानादयो धर्माः । इह यद् यस्य प्रत्ययकारणं तत् तस्य स्वपर्यायः, यथा घटस्य रूपादयः, वचनं च वाच्यार्थस्य प्रत्ययकारणम् , अतस्तत्पर्यायः, पर्यायश्च पर्यायिणोऽधीन एव, इति युक्तो निर्देश्यवशाद् निर्देश इति ॥ १५१२ ॥
स्यादेतत् , असिद्धोऽयं हेतुः- 'एतत्प्रत्ययकारणत्वाद् वचनस्य' इति, एतनिराकरणार्थमाहवैयणं विण्णाणफलं जइ तं भणिए वि नत्थि किं तेणं?। अण्णत्थ पच्चए वा सव्वत्थ वि पच्चओ पत्तो॥१५१३॥
अभिधेयसंकरो वा वत्तरि पच्चओऽणभिहिए वि । तम्हा निदिवसा नपुंसगं बेति सामइयं ॥१५१४॥
अर्थविज्ञानफलं हि वचनं, यदि भणितेऽप्युदीरितेऽपि वचने 'तं ति' तदर्थविज्ञानं नास्ति न भवति, तर्हि कण्ठोष्ठशोषमात्रविधायिना किं तेनोक्तेन, निष्फलत्वात् । स्यादेतत , वाच्यादर्थादन्यत्र वक्तृलक्षणेऽर्थे विज्ञानं जनयिष्यति वचनम् । ततश्च विज्ञानफलं च तद् भविष्यति, वाच्येऽर्थे विज्ञानं च न जनयिष्यति, तथा च सति वाच्यार्थपर्यायो वचनं न भविष्यति, इत्याशङ्कयाह- 'सम्वत्थेत्यादि' यदि हि वाच्यमर्थ विहाय वक्तृलक्षणेऽर्थान्तरे प्रत्ययं वचनं जनयेत् , तहविशेषेणैव सर्वत्रार्थे प्रत्ययः प्राप्तः, न वा कचिदप्यर्थेऽसौ भवेत् , अविशेषादिति- अतत्पर्यायत्वेऽपि तत्प्रत्ययहेतुत्वे सर्वत्रासौ भवेत् . न वा कचिद् भवेदिति भावः ।
स्यादेतत् , वचनाद् वक्तरि प्रत्ययो भवत्येव, यथाऽनेनेदमभिहितमिति, तत् किमुच्यते- 'जइ तं भणिए वि नास्थ किं तेणं' इति ? इत्याशक्याह- 'अभिधेयसंकरो वेत्यादि । अथवा, वाच्यादर्थादन्यत्र प्रत्ययेऽभ्युपगम्यमाने सर्वत्रापि प्रत्ययो न भवेदित्येको दोष उक्तः। अथ दोषान्तरमभिधित्सुराह- 'अभिधेयसंकरो वेत्यादि' यदि हि वक्तर्यनभिहितेऽपि वचनात् तत्र प्रत्ययोऽभ्युपगम्यते, हन्त ! तर्हि वक्तृवदनभिहितानि खरो-टू-डेङ्क-बकादीनि बहूनि वस्तूनि सन्ति, ततो वक्तृवत् तेषामपि श्रोतुः प्रत्यये सत्यभिधेयानां सर्वेषां, अभिधेयेन वा घटादिना सह वक्त्रादीनामन्येषां संकरः, एकस्यां श्रोतृपतीतौ सांकर्य युगपत् तदाकारसंक्रमणं प्रामोति, न चैतदस्ति, एकस्माद् वचनादेकस्यैव प्रतिनियतस्य घटाद्याकारस्य संवेदनादिति । तस्मादभिधेयपर्याय एव वचनम् , तत्पत्ययकारणत्वात् । अतो निर्दिष्टमिह सामायिकशब्दस्यार्थरूप सामायिक रूढितो नपुंसकम् , तद्वशात् सामायिकशब्दः संग्रह-व्यवहारयोर्नपुंसकलिङ्गवृत्ति अथवा, सामायिकवतः स्त्री-पुं-नपुंसकत्वात् , तत्परिणामानन्यत्वाच्च सामायिकार्थस्य त्रिलिङ्गतामपि संग्रह-व्यवहारावभ्युपगच्छतः।
बचन विज्ञानफलं यदि तद् भणितेऽपि नास्ति किं तेन । अन्यत्र प्रत्यये वा सर्वत्रापि प्रत्ययः प्राप्तः ॥१५१३।। मभिधेयसंकरो वा वक्तरि प्रत्ययोऽनभिहितेऽपि । तस्माद् निर्दिष्टवशाद् नपुंसकं बुवन्ति सामायिकम् ॥ ४५१४॥
For Private and Personal Use Only