________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
322 । विशेषा० हेतुभूतेन य उद्दिश्यतेऽभिधीयते स द्रव्योद्देशा, यथा द्रव्यपतिरित्यादि । यदिवा, ततस्तस्मान् द्रव्यादुवेशोऽभिधानप्रवृत्तिव्योदेशः, यथा द्रव्यवानित्यादि । अथवा, तस्मिन् द्रव्ये सत्युदेशोभिधानमत्तिद्रव्योदेशा, यथा सद्रव्य इत्यादिः सिंहासने राजा, चूते कोकिला, बने मयूर इत्यादि वा । एममुदिश्यते तत् , उदिश्यते तेन वेत्यादिव्युत्पत्या क्षेत्रम् , क्षेत्री, क्षेत्रपतिः, क्षेत्रे जातं क्षेत्रजमित्यादिक सर्वोऽपि क्षेत्रोद्देश इति ॥ १४९१ ॥ १४९२ ॥
कालो कालाईयं कालोवेयं ति कालजायं ति । संखेवो ति समासो अंगाईणं तओ तिण्हं ॥ १४९३ ॥ अंग-सुयक्रवंध-ज्झयणाणं नियनियप्पभेयसंगहओ । होइ समासुद्देसो जहंगमंगी तज्ञया ॥ १४९४ ॥ एमेव य सुयक्खंधो तस्सज्झेया तयत्थविण्णाया । अज्झयणं अज्झयणी तस्सज्झेया तयत्थण्णो ॥१४९५॥
'कालो त्ति काल एवौदिश्यमानत्वादेशः कालोदेशः । तेन वा कालेनादेशः कालोदेशः, यथा कालातीत कालातिक्रान्तमिदं पस्त्विति । ततो वा कालादुशा कालोदेशः, यथा कालोपेतं कालप्राप्तमिति । सस्मिन् वा काले जातं कालजातमित्यादिकः कालोदेशः। अय समासोदेश विवक्षुराह- 'संवा इत्यादि' संक्षेपेण विस्तरवतः संकोचन समास उच्यते । सकोऽयं चेदानादीनां त्रयाणां विवक्षितः। एतदेव दर्शयति- 'अग्रेत्यादि अज, श्रुतस्कन्धः, अध्ययनम्, इत्येष समासो भवति । कुता', इत्याह-निजनिजगभेदसंग्रहादिति । अस्याङ्गादिसमासस्योद्देशनमभिधानं समासोद्देशः । कः, इति दर्शयति- यथा 'अङ्गम्' इति, तदेवोदिश्यमानत्वादुद्देश इत्यर्थः । तेन बाजारूपसमासेनोद्देशः समासोदेशः, यथा- अङ्गीति, तस्याङ्गात्मकसमासादुदेशः, यथा तदध्येता- अङ्गाध्येतेत्यर्थः । एवं श्रुतस्कन्धास्मकसमास एवाहिश्यमानत्वादुद्देशः, यथा श्रुतस्कन्ध इति । तेन वोद्देश:- यथा श्रुतस्कन्धीति । तस्माद् वोदेशः, यथा तस्य श्रुतस्कन्धस्याध्यता। तस्मिन् वोदेशः, यथा तदर्थविज्ञाता श्रुतस्कन्धार्थ इत्यादि । एवमध्ययनात्मकसमास एवोद्दिश्यत इत्युद्देशः, यथाअध्ययनमिति । तेन वोद्देशः, यथा- 'अध्ययनी' इति । तस्माद् वोद्देशः, यथा- तस्याध्ययनस्याध्येता, तस्मिन् वाध्ययने सत्युद्देशः, यथा तदर्थज्ञोऽध्ययनार्थवित् , इत्यादि विवक्षया सर्व भावनीयमिति ॥ १४९३ ॥ १४९४ ॥ १४९५ ॥
. कालः कालातीसं कालोपतमिति कालजातमिति । संक्षेप इति समासोऽजादीनां तकस्त्रयाणाम् ॥ १४९३ ॥
मन-शुनस्कन्धा-अध्ययनानां निजनिजप्रभेदसंग्रहतः । भवति समासोदेशो यथाशामकी तदध्येता ॥ १४१४ ॥
एवमेव च श्रुतरफ धातस्याध्यता तदर्थविज्ञाता । अध्ययनमध्ययनी तस्थाध्येता तदर्थशः ॥ १४९५ ॥ अयोदेशोद्देशं भावोद्देशं चाह
उसो उद्देसी उद्देसण्णो तयत्यवेत्ता वा । उद्देसुद्देसोऽयं भावो भावि ति भावम्मि ॥ १४९६ ॥
उद्देशः पुलाकोदेशकादिः, स एवोदिश्यमानत्वाद्देश उद्देशोदेशः । स चार्य विज्ञेयः । कः ? इत्याह- उद्देश इति पुलाकोदेशकादिक उद्देशोऽप्युविश्यमानत्वेनोदेशोदेश उच्यते । तेन वोदेशेनोद्देशोऽभिधानं, यथा 'उद्देशी' इति । तस्माद् वोडेशो यथा- उद्देशक्षः। तस्मिन् वोदेशो यथा तस्योद्देशकस्यार्थवेत्तेत्यादि । 'भावम्मि त्ति' भावविपय उद्देशो भावोद्देशः । कः ? इत्याह- 'भावो ति' औदयिकादिको भाव उद्दिश्यतेऽभिधीयत इत्युद्देशः, भावश्वासावुद्देशश्च भावोद्देश इत्यर्थः। तेन वा भावेनोद्देशो भावोद्देशो यथा 'भावी' इत्यादि पूर्वोक्तानुसारेण वाच्यम् ।। इति गाथानवकार्थः ॥ १४९६ ॥ - अथोददेशव्याख्यानेन निर्देशमप्यतिदिशनाह
ऐमेव य निदेसो अहविहो सो वि होइ नायव्यो । अविसेसियमुद्देसो विसेसिओ होइ निदेसो ॥१४९७॥
एवमेव यथोद्देश उक्तस्तथा निर्देशोऽप्यष्टविध एव भवति ज्ञातव्यः। सर्वथा सामान्यप्रतिषेधार्थमाह-किन्त्वविशेषितसापान्यनाम-स्थापनादिरूप उद्देशः, विशेषितनामादिरूपस्तु स एव निर्देशो भवतीति विशेषः।। इति नियुक्तिगाथाक्षरार्थः ॥१४९७॥
भावार्थ तु भाष्यकारः पाह
नाम जिणदत्ताई ठवणा य विसिढवत्थुनिक्खेवो । दवे गोमं दंडी रहि त्ति तिविहो सचित्ताई ॥११२८॥ वस्तुनः पुरुषादेर्यत् पुरुषादिकं सामान्यनाम स नामोद्देश उक्तः, यत्तु तस्यैव विशेषनाम स इह नामनिर्देश उच्यते, यथा जिनदत्तादि । सामान्यस्य चन्द्रादेवस्तुनः स्थापना स्थापनोद्देश उक्तः, इह तु विशिष्टस्य सौधर्माधिपत्यादिवस्तुनो यः स्थापनारूपो निक्षेपः स स्थापनानिर्देशः। द्रव्यस्यापि त्रिविधस्य सचित्तादेविशिष्टस्य यो विशिष्टाभिधानरूपो निर्देशः स इह द्रव्यनिर्देशः। तत्र सचित्तद्रव्यविशेषस्य निर्देशो यथा गौरित्यादि, अचित्तस्य तु दण्ड इत्यादि, मिश्रस्य तु रथ इत्यादि। रथस्य चाश्वादियुक्तस्येह मिश्रता
उमेश वदेशी उद्देशज्ञस्तदर्थवेत्ता वा । देशोदेशोऽयं भावो भावीति भावे ॥ १४९६॥ २ एवमेव च निर्देशोऽष्टविधः सोऽपि भवति ज्ञातव्यः । अविशपित उद्देशो विशेषितो भवति निर्देशः ॥ १४९७ ॥ ३ माम जिनदत्तादि स्थापना च विशिष्टवस्तुनिक्षेपः । द्रव्ये गोमान् दण्डी रथीति त्रिविधः सचिसादिः ॥ १४९८ ॥
For Private and Personal Use Only