________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
314
विशेषा०
विलक्षीभूतः स्वस्थानमुपाश्रितो मेघः । तदेवं मुद्रशैलोदाहरणमभिधायोपनयमाह- 'सेलसममित्यादि' यस्य वचनकोटिभिरपि चित्तं न भिद्यते, एकमप्यक्षरं तन्मध्याद् न परिणमतीत्यर्थः, स एवंभूतः शैलसमो मुदुशैलतुल्य इत्यर्थः तं तथाभूतं शिष्यं ज्ञात्वापि कश्चित् ग्राहयतीति ग्राहको गुरुः,
Acharya Shri Kallassagarsuri Gyanmandir
"आचार्यस्यैव तज्जाड्यं यच्छिष्यो नावबुध्यते । गावो गोपालकेनैव कुतीर्थेनावतारिताः ॥ १ ॥ "
'इत्यादिश्लोकार्थविभ्रमितमतिर्गर्वाद् 'अहममुं ग्राहयिष्ये' इति प्रतिज्ञाय समागतो महता च संरम्भेणाऽध्यापयितुमारब्धः, तथापि समुद्रशैलोपमः शिष्योऽक्षरमपि न गृह्णाति । न च मनागपि स्वाग्रहग्रस्वत्वेन बुध्यते । ततश्चैवं यथा पुष्करावर्तः, तथैव सुचिरं क्लेशमनुभूय निर्विद्यते पराभज्यते । ततो विलक्षीभूतो लज्जितच निवर्तते तद्ग्रहणादयमाचार्य इति । एवंभूतस्य च शिष्यस्य सूत्रार्थदान आगमे प्रायश्चित्तमुक्तम् ।। १४५५ ।। १४५६ ।।
कुतः १, इत्याह
आयरिये सुतम्मिय परिवाओ सुत्त अत्थपलिमंथो । अन्नेसिं पिय हाणी, पुट्ठा वि न दुद्धया वझा ॥ १४५७॥
एवं शैलसमस्यापि शिष्यस्य सूत्राऽर्थदाने प्रवृत्त आचार्ये, सूत्रेऽपि चागमे परिवादोऽवर्णवादो लोकसमुत्यो भवति तत्रथाअहो ! नास्य सूरेः प्रतिपादिका शक्तिः, नापि तथाविधं किमपि परिज्ञानं यतोऽमुमप्येकं शिष्यमवबोधयितुं न क्षमः, आगयोमी संबन्धी निरतिशयो युक्तिविकलञ्च, इतरथा कथमयमेकोऽप्यस्माद् नावबुध्यते ? इत्यादि । तथा, सूत्रार्थयोरन्तराय संभवात् परिमन्थन मर्दनं विनाशनं सूत्रार्थपरिमन्थः, तच्छिक्षण प्रवृत्तस्य सुरेरात्मनः सूत्रपठन-परावर्तन- व्याख्यानभङ्गो भवतीत्यर्थः । अपरं च तद्ग्राहणप्रसक्ते मूरावन्येषां शिष्याणां सूत्राऽर्थहानिः तद्ग्रहणभङ्ग इत्यर्थः । न च बहुनापि कालेन तथाविधः शिष्यः किञ्चिदपि ग्राहयितुं शक्यः । कुतः ? इत्याशङ्कयात्रार्थे दृष्टान्तमाह- 'पुट्ठा वीत्यादि' नियमनेन नियन्त्र्य स्तनेषु करैर्वहुधा स्पृष्टापि बन्ध्या गौर्न खलु दुग्धदा भवति, एवं मुद्गशैलसमः शिष्योऽपि ग्राहणकुशलेनापि गुरुणा ग्राह्यमाणोऽपि नाक्षरमपि गृह्णाति । ततस्तादृशस्य सूत्रार्थी न दातव्यौ, ऐहिका-ssमुपकेक्शादिव हुदोपसंभवात् । ददाति चेत्, तर्हि समयोक्तमायश्चित्तभागिति । अत्राह- ननु प्रोक्तोऽसौ मुद्गशैल
१ आचार्य सूत्रे च परिवादः सुत्राऽर्थपरिमन्थः । अन्येषामपि च हानिः इहापि न दुग्धदा वन्ध्या ॥ १४५७ ॥ दृष्टान्तः, केल्लं पाषाण- मेघादीनां जल्पः, अभिप्रायपूर्विके च प्रवृत्ति-निवृत्ती, इत्यलौकिकमेवेदम् । सत्यम्, किन्तु पूर्वमुनिभिरेवात्रोकं प्रतिविधानम्, तद्यथा—
"चरियं च कप्पियं विय आहरणं दुविहमेव पन्नत्तं । अत्थस्स साहणढा इंधणमिव ओयणट्टाए ॥ १ ॥
न वि अस्थि न विय होही उल्लायो मुग्गसेल-मेहाणं । उबमा खलु एस कया भवियजणविबोहणट्टाए ॥ २ ॥"
इत्यलं प्रसङ्गेनेति ।। १४५७ ॥
अथ मुद्रशैलप्रतिपक्षभूतं घनदृष्टान्तमाह
es विदोणमेहे न कण्हभोमाओ लोठए उदयं । गहण धरणासमत्थे इय देयमच्छित्तिकारिस्मि ॥ १४५८॥
यात्रा ष्टेनाकाशविन्दुभिर्महती गर्गरी भ्रियते तावत्प्रमाणजलवर्षी मेघो द्रोणमेघ उच्यते । तस्मिन् दृष्टेऽपि सति कृष्णा भूमित्र मदेशेऽसौ कृष्णभूमः प्रदेशस्तस्माद् न प्रलोठति- बहुपि तन्मेघजलं पलितं न लुठित्वाऽन्यत्र गच्छति, किन्तु तत्रैवान्तः प्रविशतीति भावः । एवं शिष्योऽपि स कशिद् भवति यो गुरुभिरुक्तं बहुप्यवधारयति, न पुनरक्षरमपि पार्श्वतो गच्छतीति । एवंभूते च सूत्रार्थग्रहणा-ऽवधारणासमर्थे शिष्ये सूत्राऽर्थयोः शिष्य-प्रशिष्यपरम्पराप्रदानेनाव्य वच्छेदकारिणि देयं सूत्रा ऽर्थजातम्, नान्यस्मिन्ननन्तराभिहितमुद्रशैलकल्पे । इत्यन्वन्य व्यतिरेकात्मकत्वादेकमेवेदमुदाहरणम् ।। १४५८ ।।
अथ द्वितीयं कुटोदाहरणं वितृण्वन्नाह
भावि इयरेय कुडा अपसत्थ-पसत्थभाविया दुविहा । पुप्फाईहिं पसत्था सुर-तेल्लाईहिं अपसत्था ॥ १४५९॥ वम्मा अम्मा वि य पसत्थवम्माओ होंति अगेज्झा । अपसत्थअवम्मा वि य, तप्पडिक्क्खा भवे गेज्झा ॥ १४६० ॥
१ चरितं च कल्पितमपिचोदाहरणं द्विविधमेव प्रज्ञप्तम् । अर्थस्य साधनार्थमिन्धनमिवोदनार्थितया ॥ १ ॥ (र्थम्-1) नाप्यस्ति मापि च भविष्यत्युल्लापो मुद्रशैल-मेघयोः । उपमा खल्वेष कृता भविकजन विबोधनार्थम् ॥ २ ॥
२ वृष्टेऽपि द्रोणमेघे न कृष्णभूमाहोठत्युदकम् । ग्रहण-धारणासमर्थ इति देयमच्छित्तिकारिणि ॥ १४५८ ॥
६ भाविता इतरे च कुटा अप्रशस्त प्रशस्त भाविता द्विविधाः । पुष्पादिभिः प्रशस्ताः सुरा-तैलादिभिरप्रशस्ताः ॥ १४५९ ॥ ग्राम्या अवास्या अपि च प्रशस्तवाम्या भवन्त्यप्रायाः । अप्रशस्तावाम्या अपि च, तत्प्रतिपक्षा भवेयुर्ब्राह्याः ॥ १४५० ॥
For Private and Personal Use Only