________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
312
विशेषा० अथ बधिरगोदोहोदाहरणम्अन्नं पुट्ठो अन्नं जो साहइ सो गुरू न बहिरु ब्व । न य सीसो जो अन्नं सुणेइ परिभासए अन्नं ॥ १४४३ ॥
बधिरकथानकं प्रागुक्तमेव । गाथाक्षरार्थस्तु सुगमः । अथवा, बधिरश्वासौ गोदोहश्चेति कर्मधारयो न क्रियते, किन्तु बधिरथ गोदोहश्चेति द्वन्द्वः । ततो गोदोहो ग्रामेयकः, तत्कथानकं तु भिनमेवेह प्रागुक्तं द्रष्टव्यम् । उपनयस्तु स्वयमभ्यूह्य:-यो ग्रामेयकवद् यावमात्रमुक्तस्तावन्मात्रमेव स्वयं द्रव्य-क्षेत्र-कालाधौचित्यविरहितो वक्ति, स शिष्यत्वेऽप्ययोग्या, गुरुत्वं तु रेणैव तस्येति ॥१४४३॥
अथ टङ्कणकव्यवहारदृष्टान्तभाष्यम्अक्खेव-निण्णय-पसंगदाणगहणाणुवत्तिणो दो वि । जोग्गा सीसायरिया टंकण-बणिओवमा समए ॥१४४४॥ अहवा गुरुविणय-सुयप्पयाणभण्डविणिओगओ दो वि। निजरलाभयसहिया टंकण-वणिओवमा जोग्गा ॥१४४५॥
इहोत्तरापथे म्लेच्छदेशे कचिद् टङ्कणाभिधाना म्लेच्छाः । ते च सुवर्णसट्टेन दक्षिणापथायातानि क्रयाणकानि गृहन्ति, परं वाणिज्यकारकास्तद्भाषां न जानन्ति, तेऽपीतरभाषां नावगच्छन्ति । ततश्च कनकस्य क्रयाणकानां च तावत् पुञ्जः क्रियते, यावदुमयपक्षस्यापीच्छापरिपूर्तिः, यावच्चैकस्यापि पक्षस्येच्छा न पूर्यते, तावत् कनकक्षात् क्रयाणकपुञ्जाच हस्त नापसारयन्ति, इच्छापरिपूर्ती तु तमपसारयन्ति । एवं तेषां परस्परमीप्सितप्रतीप्सितो व्यवहारः। अथोपनयगाथाद्वयं व्याख्यायते, तद्यथा-टणाच वणिजश्व तेषामुपमै समये वर्णिता यथैते टङ्कण-वणिज, परस्परमीप्सित-प्रतीप्सितव्यवहारेण व्यवहरन्ति, एवमाक्षेप-निर्णय-प्रसङ्गदान-प्राणानुवर्तिनो दयेऽपि शिष्या आचार्याश्वानुयोगयोग्या भवन्ति । इदमुक्तं भवति- यथा टङ्कणा वणिजश्च परस्परेच्छापरिपूर्ति यावत सुवर्णस्य क्रयाणकस्य च पुञ्जान् करोति, एवं शिष्योऽपि तावदाक्षेपं पूर्वपक्षं करोति यावत् सूत्रार्थमवबुध्यते, न पुनर्भय-लज्जा-महारादिमि. रेवमेवानवगतेनाग्रतो याति, गुरुरपि तावद् निर्णयं प्रयच्छति यावच्छिष्यः सूत्रार्थमवगच्छति, भासनिक च तावद् गुरुः कथयति यावन्मानं शिष्योऽवधारयति । शिष्योऽपि यथाशक्ति तत् सर्व गृहातीति । एवं दान-ग्रहणानुवर्तिनो इयेऽपि शिष्या-ऽऽचार्या योम्याः। तत्र गोहो भन्यत् पृष्टोऽन्यद् यः कथयति स गुरुन बधिर इव । न च शिष्यो योऽन्यत् णोति परिमापतेऽन्यत् + मोहन्वेति
१ आक्षेप-निर्णय-प्रसादान-ग्रहणानुवर्तिनी द्वावपि । योग्यौ शिष्या-चायौं रकण वणिगुपमी समये ॥ १४॥ मट्टेन
अथवा गुरुविनय-श्रुतप्रदानभाण्डविनियोगतो द्वावपि । निर्जरालाभसहिती टण-वणिगुपमी योग्यौ । १४४५॥ दानं च ग्रहणं च दान-ग्रहणे, प्रसङ्गस्य प्रसङ्गागतस्य दान ग्रहणे प्रसङ्गदान ग्रहणे; आक्षेपश्च निर्णयश्च प्रसनदान-ग्रहणे च तानि तथेति समासः, सदनुवर्तनशीला द्वयेऽपि शिष्या-ऽऽचार्या योग्या भवन्ति ।
प्रकारान्तरेणापि टङ्कण-वणिगुपैमानं भावयति- अहवेत्यादि गाथा । अथवा, शिष्येणौचित्यानतिक्रमात् कर्तव्यः सर्वोऽपि गुरुविनयः, गुरुणापि शिष्यौचित्येन कर्तव्यं सर्वमपि श्रुतपदानम् । गुरुविनयश्च श्रुतप्रदानं च, ते एव भाण्डे ग्राह्य-देयक्रवाणके तयोर्विनियोगो विनिमयस्तस्माद् गुरुविनय-श्रुतप्रदानभाण्डविनियोगाद् द्वयेऽपि शिष्या-ऽऽचार्याः कर्मनिर्जरालाभसहिताष्टकणवणिगुपमा अनुयोगस्य योग्या भवन्ति । विपर्यये तु विपर्यय इति । तदेवं 'गोणी चंदण' इत्यादिना योग्या अयोग्याश्योक्ताः शिष्या-ऽऽचार्याः॥ १४४४ ॥ १४४५॥ इदानीं शिष्यस्य विशेषत एव योग्या-योग्यत्वमभिधित्सुः प्रस्तावनामाह
अत्थी स एव य गुरू होइ जओ तो विसेसओ सीसो । जोग्गोऽजोग्गो भन्नइ तत्थाजोग्गो इमो होइ ॥१४४६।
य इदानीं श्रुतस्यार्थ शृणोति स एव शिष्यः कालान्तरेणार्थी अर्थयुक्तोऽवगतसूत्रा-ऽर्थः सन् यस्माद् गुरुर्भवति नान्यः, तस्माद् योग्योऽयोग्यश्च विशेषतः शिष्यो भण्यते । तत्रायोग्यस्तावदयं वक्ष्यमाणो भवति ॥ इति द्वादशगाथार्थः॥ १४४६ ॥
कैस्स न होही देसो अणब्भुवगओ य निरुवगारी य । अप्पच्छंदमईओ पत्थियओ गंतुकामो य ॥१४४७
कस्य गुरोर्न भविष्यति द्वेष्योऽप्रीतिकरः शिष्यः, अपितु भविष्यत्येव । किं सर्व एव', न, इत्याह- अनभ्युपगतः श्रुतसंपदाऽनुपसंपमोऽनिवेदितात्मेत्यर्थः । अनुपसंपनत्वेऽपि तथा निरुपकारी गुरूणामनुपकारका सर्वथा गुरुकृत्येष्वप्रवर्तक इत्यर्थः। तत्राप्यात्मच्छन्दमतिः स्वाभियि कार्यकारीत्यर्थः । तथा, प्रस्थितो यो योऽन्यः कोऽपि शिष्यो जिगमिषुः, तस्य तस्य द्वितीयः । तथा, गन्तुकामश्च सदैव गन्तुमना य आस्ते, वक्ति च- 'कोऽस्य गुरोः संनिधानेऽवतिष्ठते, समर्प्यतामेतत् श्रुतस्कन्धादि, ततो यास्यामि' इत्येवंचित्त एव सदैवास्ते । तदेवंभूतः शिष्योऽयोग्य एव श्रवणस्येति भावः ॥ इति नियुक्तिगाथार्थः ॥ १४४७॥ - अनभ्युपगतादिस्वरूपं भाष्यकारोऽप्याह
१ प.ज. 'पमा भा'। २ गाथा १४३४ । ३ क.ख.ग.प. 'दनेल्या' 1 अनुपसपन्नत्यजप-1.समाप्यता-1 १ अर्थी स एव च गुरुर्भवति यतस्ततो विशेषतः शिष्यः । योग्योऽयोग्यो भण्यते तत्रायोग्योऽयं भवति ॥ १४४६॥ ५ कस्य न भविष्यति द्वेष्योऽनभ्युपगतच निरुपकारी च । आत्मच्छन्दमतिका प्रस्थितको गन्तुकामा ॥११४.॥६ घ.ज. 'प्रायका'।
For Private and Personal Use Only