________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विशेषाः
पुव्वपउत्तं विणयं मा हु पमाएहि विणयजोग्गेसु । जो जेण पगारेणं उवजुज्जइ तं च जाणाहि ॥ २॥
ओमो समराइणिओ अप्पतरसुओ य मा एणं तुब्भे । परिभवह एस तुम्हवि विसेसओ संपयं पुज्जो ॥३॥ इत्यादिशिक्षा दत्त्वा गच्छाद् विनिर्गते चक्षुर्गोचरातीते तस्मिन्नानन्दिताः साधवः प्रतिनिवर्तन्ते । उक्तं च
"पैक्खीव पत्तसहिओ सभंडगो वच्चए निरवइक्खो । धीरो घणवन्दाओ च नीहरिओ विज्जुपुंजो व्व ॥ १॥ सीहम्मि व मन्दरकन्दराओ गच्छा विणिग्गए तम्मि । चक्खुबिसयमइगए अ इंति आणंदिआ साहू ॥२॥
आभोएउं खेत्तं निव्वाधाएण मासनिव्वाहिं । गन्तूण तत्थ विहरे साहू पडिवन्नजिणकप्पो" ॥ ३ ॥ - एवं च प्रतिपन्नजिनकल्पो यत्र ग्रामे मासकल्पं चतुर्मासकं वा करिष्यति, तत्र षड् भागान् कल्पयति । ततश्च यत्र भागे एकस्मिन् दिने गोचरचर्यायां हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति, भिक्षाचर्या ग्रामान्तरगमनं च तृतीयपौरुष्यामेव करोति । चतुर्थपौरुषी च यत्राऽवगाहते, तत्र नियमादवतिष्ठते । भक्तं पानकं च पूर्वोक्तैषणाद्वयाभिग्रहेणाऽलेपकृदेव गृह्णाति । एषणादिविषयं मुक्त्वा न केनापि साधं जल्पति, एकस्यां च वसतौ यद्यप्युत्कृष्टतः सप्त जिनकल्पिकाः प्रतिवसन्ति, तथापि परस्परं न भाषन्ते । उपसर्गपरीपहान् सर्वानपि सहत एव, रोगेषु चिकित्सां न कारयत्येव, तद्वेदनां तु सम्यगेव विषहते, आपातसंलोकादिदोषरहित एव स्थण्डिले उच्चारादीन् करोति, नाऽस्थण्डिले
"अममत्तअपरिकम्मा नियमा जिणकप्पियाण वसहीओ। एमेव य थेराणं मोत्तूण पमजणं एवं" ॥१॥ १ पूर्वप्रवृत्तं विनयं मा खलु प्रमादयेविनययोग्येषु । यो येन प्रकारेण उपयुज्यते तं च जानीहि ॥१॥ . अवमः समरान्निकोऽल्पतरश्रुतश्च मा एनं यूयम् । परिभवत एष युष्माकमपि सांप्रतं पूज्यः॥३॥
"ये च ते बहुश्रुतपर्यायज्येष्ठादयो विनययोग्या गौरवास्तेिषु पूर्वप्रवृत्तं यथोचितं विनयं मा प्रमादयेः-प्रमादेन परिहारयः, यश्च साधुर्येन तपः-स्वाध्याय-वैयावृत्त्यादिना प्रकारेणोपयुज्यते-निर्जरां प्रत्युपयोगमुपयाति, तं च जानीहि-तं तथैव प्रवर्तयेरित्यर्थः । अथ साधूनामनुशिष्टिं प्रयच्छति-"ओमो" अवमोऽयं, समरास्निकोऽयम्, अल्पश्रुतो वाऽयमस्मदपेक्षया, अतः किमर्थमस्याऽऽज्ञानिर्देशं वयं कुर्महे ? इति मा यूयमेनं परिभवत, यत एष युष्माकं सांप्रतमस्मत्स्थानीयवाद् गुरुतरगुणाधिकत्वाच विशेषतः पूज्यः, न पुनरवज्ञातुमुचित इति भावः" इति बृहत्कल्पस्यतस्या एव गाथाय्याष्टीकायां श्रीक्षेमकीर्तिसूरिः।
२ पक्षीव पत्रसहितः सभाण्डकः (सपात्रकः) व्रजति निरपेक्षः । धीरो घनवृन्दाच्च निःसृतो विद्युत्पुब्ज इव ॥१॥
सिंहे इव मन्दरकन्दराया गच्छाद् विनिर्गते तस्मिन् । चक्षुर्विषयमतिगते च यान्त्यानन्दिताः साधवः ॥२॥ भाभोग्य (विज्ञाय) क्षेत्र निर्व्याघातेन (विघ्नाभावेन) मासनिर्वाहि (मासनिर्वहणसमर्थ)। गत्वा तत्र विहरेत् साधुः प्रतिपम्नजिनकल्पः ॥३॥
३ अममत्वाऽपरिकर्माणो नियमाजिनकल्पिकानां वसतयः । एवमेव च स्थविराणां मुक्त्वा प्रमार्जनमेकम् ॥ १॥ इति वचनात् परिकर्मरहितायां वसतौ तिष्ठति, यापविशति तदा नियमावुत्कुदुक एव, न तु निषद्यायाम, औपग्रहिकोपकरणस्यैवाऽभावादिति । मत्तकरि-व्याघ्र-सिंहादिके च संमुखे समापतत्युन्मार्गगमनादिना ईर्यासमितिं न भिनत्ति, इत्याद्यन्याऽपि जिनकल्पिकानां सामाचारी समयसमुद्रादवगन्तव्या । 'ठिई चेव चि' तथा पूर्वोक्ते द्विविधेऽपि विहारे स्थितिः श्रुतसंहननादिका ज्ञानव्या, तथाहि-जिनकल्पिकस्य तावजघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु, उत्कर्षतस्त्वसंपूर्णानि दश पूर्वाणि श्रुतं भवति । प्रथमसंहननो वज्रकुड्यसमानाऽवष्टम्भश्चायं भवति । स्वरूपेण पञ्चदशस्वपि कर्मभूमिषु, संहृतस्त्वकर्मभूमिष्वपि भवति । उत्सर्पिण्यां व्रतस्थस्तुतीयचतुर्थारकयोरेवः जन्ममात्रेण तु द्वितीयारकेऽपि, अवसर्पिण्यां तु जन्मना तृतीयचतुर्थारकयोरेव, व्रतस्थस्तु पञ्चमारकेऽपि संहरणेन तु सर्वस्मिन्नपि काले प्राप्यते । प्रतिपद्यमानकः सामायिक-च्छेदोपस्थापनीयचारित्रयोः, पूर्वप्रतिपन्नस्तु सूक्ष्मसंपराय- यथाख्यातचारित्रयोरप्युपशमश्रेण्यामवाप्यते । प्रतिपद्यमानानामुत्कृष्टतः शतपृथक्त्वम् , पूर्वप्रतिपन्नानां तु सहस्रपृथक्त्वं जिनकल्पिकानां लभ्यते । जिनकल्पिकः प्रायोऽपवादं नाऽऽसेवते, जवाबलपरिक्षीणस्त्वविहरमाणोऽप्याराधकः । आवश्यिकी-नैषेधिकी-मिथ्यादुष्कृत-गृहिविषयपृच्छो-पसंपल्लक्षणाः पञ्च सामाचार्योऽस्य भवन्ति, न विच्छादयः। अन्ये त्वाहुः-आवश्यिकी-नषेधिकी-गृहस्थोपसंपल्लक्षणास्तिस्रएव भवन्ति, आरामादिनिवासिन ओघतः पृच्छादीनामप्यसंभवादिति । लोचं चाऽसौ नित्यमेव करोति, इत्येवमाद्यपराऽपि स्थितिजिनकल्पिकानामागमादवसेया। परिहारविशुद्धिककल्प-सामाचार्यादिवक्तव्यताऽत्रैव ग्रन्थे पुरस्ताद् वक्ष्यते । यथालन्दिकानां तु "तवेण सत्तेण सुत्तेण" इत्यादिका भावनादिवक्तव्यता यथा जिनकल्पिकानाम: यस्तु विशेषः स लेशतः पोच्यते-तत्रोदकाः करो यावता शुष्यति, तत आरभ्योत्कृष्टतः पञ्च रात्रिन्दिवानि यावत्कालोऽत्र समयपरिभाषया लन्दमित्युच्यते । ततश्च पञ्चरात्रिन्दिवलक्षणस्योस्कृष्टस्य लन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः। पञ्चको हि गणोऽमुं कल्पं प्रतिपद्यते, ग्रामं च गृहपतिरूपाभिः षड्भिर्वीथीभिजिनकल्पिकवत् परिकल्पयन्ति, किन्त्वेकैकस्यां वीथ्यां पञ्च पश्च दिनानि पर्यटन्तीत्युत्कृष्टलन्दिचारिणो यथालन्दिका उच्यन्ते । एते च प्रतिपद्यमानका जघन्यतः पश्चदश भवन्ति; उत्कृष्टतस्तु सहस्रपृथक्त्वम् । पूर्वप्रतिपन्नातु जघन्यतः कोटिपृथक्त्वम् , उत्कृष्टतोऽपि कोटिपृथक्त्वं भवन्ति । एते च यथालन्दिका द्विविधा भवन्ति-गच्छे प्रतिबद्धाः, अप्रतिबद्धाश्चः गच्छे च प्रतिबन्धोऽमीषां कारणतः, किञ्चिदश्रुतस्यार्थस्य श्रवणार्थमिति मन्तव्यमिति । पुनरेकैकशो द्विविधाः-जिनकल्पिकाः, स्थविरकल्पिकाश्च । ये जिनकल्पं प्रतिपत्स्यन्ते ते जिनकल्पिकाः, ये तु पुनरपि स्थविरकल्पं समाश्रयिष्यन्ते ते स्थविरकल्पिकाः। एतेषां च स्थविरकल्पिक-जिनकल्पिकभेदभिन्नानां यथालन्दिकानां परस्परमयं विशेषः, यदाह
१ ख. ग. 'दुत्कुटक' । दुत्कुटुक-।।
रित्रयोरप्युपानपि कालेमायण तु द्वितीया
For Private and Personal Use Only