________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(९२) ॥ अथ द्वादशकमले अनुबंधेषु अधिकारिणो वर्णनं ॥
. १॥ अधिकारी तु विवेकवैराग्यशमादिमुमुक्षु तावान् भवति इत्यवधि अनुबंधानां मध्ये विषयप्रयोजनसंबंधाधिकारीत्यनुबंधचतुष्ठयस्य स्वरूपं प्रतिपादितं । अधुना तुभ्यं विवेकवैराग्यशमदमादिमुमु. क्षुतानां स्वरूपं ब्रवीमि तदनंतरं चतुस्साधनवतो नृपरंतिदेवस्य गाथां प्रवक्ष्य॥अद्य वैराग्यस्य विवेकस्य च वर्णनं करोमि ॥
मालिनी छंदःअजशिवसुरलोकान्सर्वदा द्वेषदीप्तान् त्यजति वरविरागी यत्नसाध्याननित्यान् । भजति परमपूज्यं सत्यमात्मस्वरूपं न भजति निजदेहं नाशबुद्ध्या विवेकी ॥
ब्रह्मलोकेऽपि रागद्वेषादयस्संति तत्र प्रमाणं ॥वाल्मीकिरुवाच ॥सनत्कुमारो निष्काम अवसद्ब्रह्म सग्ननि।वैकुंठादागतो विष्णुप्रैलोक्याधिपतिःप्रभुः १ ब्रह्मणा पूजितस्तत्र सत्यलोकनिवासिभिः॥ विना कुमारं तंदृष्ट्वा युवाच प्रभुरीश्वरः ॥२॥ सनत्कुमार स्तब्धोसि निष्कामो गर्वचेष्टया ॥ अतस्त्वं भव कामार्तः शरजन्मति नामतः ॥३॥ तेनाऽपि शापितो विष्णुः सर्वज्ञत्वं तवास्ति यत् ॥ किंचित्कालं हि तत्त्यक्त्वा त्वमज्ञानी भविष्यति ४
For Private and Personal Use Only