________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(९०)
तथात्राऽपि परमात्मनि दोषत्रयमतरेण जगतोऽध्यासरूपत्वं संभवति। किंच ब्रह्मणः स्वप्र. काशत्वाद्विशेषस्याज्ञानं तत्र न संभवति निरंशत्वाच्च सामान्यविशेषनावोऽपि न संभवतीति यत्कथनं तदपि न समीचीनं स्वस्वरूपे स्वयंप्रकाशेऽपि ब्रह्मणि मूढानां ब्रह्मादमस्मीत्यनुभवाभावदर्शनात् सूर्येऽप्युलूकानामंधकारवदिति ।
७ तथा निरंशेऽपि ब्रह्मणि सामान्यभावस्य ब्रह्मास्ति ब्राह्मणोऽस्मि घटोऽस्ति त्वमसीति सर्वत्र सत्तारूपस्य दर्शनात् विशेषभावस्य च नित्यमुक्तोऽ. स्मि ब्रह्माहमस्मीति नित्यमुक्तत्वस्य ब्रह्मभावरूपत्वस्यापि जीवन्मुक्तपुरुषविशेषे दर्शनाच नवति स्वप्रकाशेऽज्ञानता निरंशे च सामान्यविशेषभावोऽपि। इयमेवाध्यासस्य सामग्री सिद्धा। ततो नवति संसारस्य मिथ्यात्वं ज्ञानेन निवृत्तिश्चातः परमानंदस्य प्राप्तिरपि संभवति। तदेव ग्रंथस्य प्रयोजनं एतावता सिद्धमिति ॥
__॥इति एकादशकमले प्रयोजनानुबंधस्य वर्णनम् ॥ हरिः ॐ तत्सत् ॥
For Private and Personal Use Only