________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८०) साक्षी तु "विदतादविदतादाधि” इत्यादिश्रुत्या ज्ञानाज्ञानविनिर्मुक्त एवास्ति। तस्य ब्रह्मणा सैहकता संभवति घटाकाशस्य महाकाशेन सहैकतावदिति सिद्धा साक्षिब्रह्मणोरकता।
९ त्वया यदुक्तं अंतःकरणविशिष्ठजीवाद्भिन्नः साक्षी नास्तीति तन्न संभवति । यतो जीवांदतःकरण विशिष्ठादन्यः साक्षी भवत्येव । यथा एका स्त्री गृहस्थाश्रमिणो विशेषणं, तस्याः सुखदुःखैः सुखी दुःखी भवतीति दर्शनात् सा च स्त्री संन्यासिनः उपाधिरपि भवति तस्याः सुखदुःखै सुखी दुःखी न भवतीत्यनु भवाच्च तस्य संन्यासिनः गुरुणाऽऽचार्येण सदकतावत् अंतःकरणोपाधिवतःसाक्षिणःसंन्यासिनो गृहस्थाश्रमिण इव जीवात्भेदोऽवश्यमेवास्ति । तस्यैकसाक्षिण एव ब्रह्मणा सहैकतासंभवात् , तच्चैक्यं वेदांतानां विषयः संभवति । एवं यो विषयः स एव प्रतिपाद्यमेवात्राऽस्ति ग्रंथस्तु प्रतिपादक एव । तयो ग्रंथविषययोः
For Private and Personal Use Only