________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ स साक्षी एकश्चेत्तर्हि एकशरीरे ये सुखादयः संति तेषां सर्वशरीरे भानं स्यात् , यतः सर्वशरीरे भानं न भवत्यतः नाना साक्षिणः संति नत्वेक साक्षी। तेषां नानासाक्षिणां एकब्रह्मणा सहैकताऽसंभवाज्जीवब्रह्मणोरक्यं ग्रंथस्य विषयः कथमपि न संभवति ॥
७ समाधानं । यथा घटोपाधिकस्य घटाकाशस्य महाकाशेन सहैकताऽभावेपि निरुपाधिकस्य घटाकाशस्य महाकाशेन सहैकता भवत्येव। तद्वद्रागादिधर्मयुक्तांतःकरणविशिष्ठस्य जीवस्य ब्रह्मणा सहैकताऽभावेपि रागाद्यनधिकरणांतःकरणोपहितस्य साक्षिणो रागादिरहितस्य ब्रह्मणा सहैकता भवत्येव बाधकाभावात् ॥
८पूर्व यदुक्तं, अंतःकरणस्य रागादिधर्मा ये संति तेंऽतःकरणेन न ज्ञायते किंतु साक्षिणा ज्ञायते। स साक्षी नानारूपोऽस्ति नत्वेकरूपः । एकश्चत्तर्हि एकस्य ये सखदुःखादयस्ते सर्वशरीरे कथं न ज्ञायते ज्ञातुः साक्षिण एकत्वात् ॥ ___ गुरुरुवाच । भो मुने तव कथनमनुचितं, यत एकमेवांतःकरणं तमोगुणेन रागादिविषयाकारण परिणमते । सत्त्वगुणेन तु तेषां रागादिविषयाणां ज्ञानाकारणापि तदेव परिणमते ।
For Private and Personal Use Only