________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७६) तत्रापि भेदोऽस्ति त्वगिन्द्रयं नेत्रद्रियं च साश्रयं स्पर्श साश्रयं रूपं च विजानाति, रसना घ्राणं श्रोत्रं तु रसं गंधं शब्दमेव विजानाति न त्वाश्रयं। एवं पंचेंद्रियेभ्योऽतःकरणस्य ज्ञानं न भवति अंतःकरणस्यापंचीकृतत्वात्, इंद्रियेभ्योप्यंतत्वाच्च । तथांतःकरणं स्ववृत्तेरपि विषयो न भवति, यथा वन्दिः स्वदाहविषयो न भवति ॥
_ ५ ये सुखदुःखादयश्चांतःकरणधर्माः सन्ति तेऽपि अंतःकरणे संलग्नत्वेनांतःकरणस्य वृत्तिविषया नो भवन्ति। स एव विषयो भवति यस्तु यत्किंचिदपि दृरे स्यात् । यस्संलग्नो भवेत् स न विषयो भवति। यथा नेत्रे संलग्नं नेत्रांजनं नेत्रंद्रियवृत्तर्विषयो न भवति तद्वत् धर्मा अपि सुखादयोऽतःकरणे सलग्नत्वात्तवृत्तिविषया नभवंति। तस्मात् धर्मसहितांतःकरणस्य ज्ञानं स्वस्मात् स्ववृत्तरिंद्रियेभ्यो वा न भवति। तस्मात् साक्षिणः सकाशादेवांतः करणस्य तद्धर्माणां च सुखदुःखादीनां ज्ञानं भवति ॥
For Private and Personal Use Only