SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७४) तथाहि जीवो रागादिपंच क्लेशवान्, ब्रह्म तु पंचक्लेशराहतं तथैकरूपं च, 'एकमेवाद्वितीयमिति' श्रुतेः । जीवस्तु नानारूपो भवति नत्वेकः । एक श्चेत्तर्हि एकशरीरस्य सुखादिकं यत्तस्य सर्वशरीरेषु कथं नानुभवो भवति ।अत एव जीवस्य नानारूपत्वम्। ३ न चांतःकरणमेव नानारूपं सुखदुःखादिध. मवच्च, भवति नात्मनः सुखादिधर्मास्सति, तस्मा देवाऽऽत्मनः प्रतिशरीरे सुखादेर्भानं न भवति । जीवसाक्षी तु क्लेशरहित एकश्च तस्य भवति ब्रह्मणा सहैक्यमिति वाच्यं । जीवात्पृथक् साक्षिणोऽभावात्। यदि साक्षी पृथगस्तीति मन्यसे सोपि नानैव नत्वेकरूपः॥ __ ४ तथाहि अंतःकरणं तद्धर्मः सुखदुःखादिश्च साक्षिणा ज्ञायते नत्वंतःकरणेन न वा इंद्रियायते। तेषां प्रांगमुखत्वात्, ‘पराञ्चि खानि व्यतृणत्स्वयंभूः' इति श्रुते बहिर्मुखत्वश्रवणात्, इंद्रियाणां पंचीकृतभूतप्रकाशकत्वाच्च । For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy