________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७२) तेषां नामानि तु विषयसंबंधाधिकारिप्रयोजनानि सति । यथा वैदकग्रंथेऽनुबंध चतुष्टयं भवति तथात्रापि ज्ञातव्यम् । यथा वैदकग्रंथे रोगनिदानौषधयो विषयाः संति तथात्र जीवब्रह्मणोरक्यमेव विषयो। यथा वैदकग्रंथ रोगवान धिकारी भवति तथात्रापि ब्रह्म जिज्ञासावानेवाधिकारी ज्ञेयो । यथा तत्र रोगनिवृत्तिपूर्वका शरी: पुष्टिरेव प्रयोजनमेवमत्राप्यनर्थनिवृत्तिपूर्वकपरमानंदप्राप्तिरेव प्रयोजनं भवति । वैदकवेदांतयोरुभयोरपि ग्रंथविषयमिथः प्रतिपादकप्रतिपाद्यसंबंद्धवान् एवं सत्यत्रादौ
विषयं जीवब्रह्मणोरैक्यं खंडनमंडनपूर्वकं त्वं शृणु ॥
२॥ शिष्य उवाच-भो गुरो कृपालो कोऽहमस्मि। किं ब्रह्मणो भिन्नोऽभिन्नो वा। भिन्नश्चेनदा "द्वितीयाद्वै भयं भवतीति " श्रुत्या मुक्तिर्न स्यादभिन्न श्चेत्तदभिन्नतारूपजीवब्रह्मणोक्यमेव ग्रंथस्य विषयो भवति। स विषयो यथा न संभवति तथा ब्रीमि जीवस्य ब्रह्मणश्च द्वयोरपि स्वरूपतो धर्मतश्च भेददर्शनादेक्यं न संभवति ।
For Private and Personal Use Only