________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४) ॥ ब्रह्मध्याने रागोत्पादनायोदालकप्रार्थनां शृणुत॥ कदाऽहं त्यक्तमनने पदे परमपावने चिरं विश्रांतिमेष्यामि मेरुशृंग इवांबुदः ॥१॥ इदं कृत्वेदमप्यन्यत्कर्तव्यमिति कल्पनाम् कदांतर्विहासष्यामि पदविश्रांतया धिया ॥२॥ अंतः समः समाकारः सौम्यः सर्वार्थनिस्पृहः ॥ कदोपशममेष्यामि मंथमुक्तामृताब्धिवत् ॥३॥ कदा विकल्पजालं मे न लगिष्यति चेतसि ॥ स्थितमप्युज्झितासंगं पयः पद्मदले यथा ॥ ४ ॥ किं तत्प्राप्यं प्रधानं स्यायद्विश्रांतो न शोच्यते यत्प्राप्य जन्मना नूयः संबंधो नोपजायते ॥ ५॥ सबाह्याभ्यांतरं सर्व शांतकल्पनया धिया। पश्यश्चिन्मात्रमखिलं भावयिष्याम्यहं कदा ॥६॥ इहितानीहितैर्मुक्तो हेयोपादेयवर्जितः। कदांतस्तोषमेष्यामि स्वप्रकाशपदे स्थितः ॥७॥ कदोपशांतमननो धरणीधरकंदरे ॥ समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना ॥८॥
१॥ कश्चित्पडितमानी सन्स्वयं शास्त्राणि दृष्ट्वा. संशयाविष्टत्वात्सुखमप्राप्य समित्पाणिः सन्, ब्रह्मनिष्ठं वेदविशारदं सद्गुरुं साष्टांगप्रणामपूर्वक सविनयवाक्यमब्रवीत्, “भोः स्वामिन् सर्वशास्त्रेषु मोक्षप्रदं किं शास्त्रं मया विनिश्चित्याश्रयणीयम् ।
For Private and Personal Use Only