________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६४) कदाचित्परिघनृपतिनगरे सर्वप्रजा दुर्भिक्षण पीडिताऽभवत् । तां दुःखपीडितप्रजां परित्यज्य तीनवैराग्येण विनिर्जनवने समाधौ निमग्नोऽनृत् । बहुकालादनंतरं समाधिमुत्सृज्य स परिघराजर्षिः सुरघुप्रजापतेर्दढज्ञाननिरतस्य समीपं गत्वा तेन सह सूर्यचंद्रसमैकासने स्थित्वा ज्ञानध्यानसंबंधिसंवादं चकार ॥ अथैवं प्रियया तत्र विश्रंभकथया चिरम्। प्राक्तनस्नेहगर्भिण्या स्थित्वोवाचाऽयुधाभिधः ॥ १ परिघ उवाच
यद्यत्संसारजालेऽस्मिन् क्रियते कर्म नूमिप । तत्समाहितचित्तस्य सुखायान्यस्य नाऽनघ ॥२ कञ्चित्संकल्परहितं परं विश्रमणास्पदम् ।
परमोपशमं श्रेयः समाधिमनुतिष्ठसि ॥३ २॥ सुरघुरुवाच
एतन्मे ब्रूहि भगवन्सर्वसंकल्पवर्जितं । परमोपशमं श्रेयस्समाधिर्हि किमुच्यते ॥ ४ यो ज्ञो महात्मन्सततं तिष्टन व्यवहरंश्च वा। असमाहितचित्तोऽसौ कदा भवति कःकिल॥ ५
For Private and Personal Use Only