________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ६२ ' )
पंचमीं भूमिकामेत्य सुषुप्तिपदनामिकाम् । शांताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रके ॥ ८
Acharya Shri Kailassagarsuri Gyanmandir
अंतर्मुखतया नित्यं बहिर्वृत्तिपरोऽपि सन् । परिश्रांततया नित्यं निद्रालुरिव लक्ष्यते ॥ ९
३ ॥ कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः । षष्ठीं गाढसुषुप्त्याख्यां क्रमात्पतति भूमिकां ॥ १० यत्र नासनसद्रूपो नाहं नाप्यनहंकृतिः । केवलं क्षीणमनन आस्ते द्वैतैक्यनिर्गतः ॥ ११ परप्रयुक्तेन चिरं प्रयत्नेनाऽवबोधनम् । पदार्थभावनी नाम षष्ठी भवति भूमिका ॥१२
भूमिषड्कचिराभ्यासाद्भेदस्यानुपलंभनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ १३
समाप्ता: ॥
॥ इति अष्टमकमले ज्ञानस्य सप्त भूमिकाः
१ * ॥ अथ नवमकमले राजयोगावलंबी सुरघुपरिघयोः संवादः ॥
For Private and Personal Use Only