________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५६) दृक्स्थितिः-दृष्टिं ज्ञानमयीं कृत्वा पश्येदात्ममयं जगत्।
सा दृष्टिः परमोदारा न नासाग्रावलोकिनी॥१३ दृष्टादर्शनदृश्यानां विरामो यत्र वा भवेत् ।
दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी॥१४ धारणा-यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात्।
मनसो धारणं चैव धारणा सा परा मता ॥ १५ ध्यानं-बह्मैवाऽस्मीति सत्या निरालंबतया स्थितिः।
ध्यानशब्देन विख्याता परमानंददायिनी ॥१६ समाधिः-निर्विकारतया वृ या ब्रह्माकारतया पुनः।
वृत्तिविस्मरणं सम्यग् समाधिर्ज्ञानसंज्ञिकः ॥१७ ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः। न चास्ति किंचित्कर्तव्यमस्ति चेन्नस तत्त्ववित॥१८ बुद्धिर्विनष्टा गलिता प्रवृत्ति जीवात्मनोरेकतयाधिगत्या। इदं न जानेऽप्यनिदं न जाने किं वा कियद्वा सुखमस्त्यपारं । १९
॥ नाप्नोति कर्मणा मोक्षं विमूठोऽभ्यासरूपिणा । __ धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः॥२०
For Private and Personal Use Only