________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५४) प्राणायामः-चित्तादिसर्वभूतानां ब्रह्मत्वेनैव भावनात्।
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते॥५ निषेधनं प्रपंचस्य रेचकाख्यः समीरणः । ब्रह्मैवाऽस्मीति या वृत्तिः पूरको वायुरीरितः॥ ६ ततस्सद्वृत्तिनैश्चल्यं कुंभकः प्राणसंयमः ।
अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनं ॥ ७ देहसाम्यं-अंगानां समतां विद्यात्समे ब्रह्मणि लीयते॥
नो चेन्नैव समानत्वमृजुत्वं शुष्ककाष्टवत् ॥ ८ मौनं-वाचो यस्मान्निवर्तते तद्वक्तुं केन शक्यते ।
प्रपंचो यदि वक्तव्यः सोपि शब्दाविवर्जितः॥९ इति वा तद्भवेन्मौनं सतां सहजसंज्ञितम् ।
गिरा मौनं तु बालानां प्रत्युक्तं ब्रह्मवादिभिः॥१० एकांतदेशः-आदावंते चमध्ये च जनो यस्मिन्न विद्यते।
येनेदं सततं व्याप्तं स देशो विजनः स्मृतः॥११ प्रत्याहारः--विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मजनं ।
प्रत्याहारः स विज्ञेयोऽभ्यसनीया मुमुक्षुभिः॥१२
For Private and Personal Use Only