________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५२) यावदंतःकरणमास्ति तावद्रागादिर्न नश्यत्येव, र वे. रुष्णताप्रकाशवत् । तथाऽप्यनुद्भूतरागादिमतोऽतः करणस्य समाधौ प्रवृत्तिर्भवत्येव। उद्धृतरागादिम. तोऽतःकरणस्याधिकारस्तु न भवतीति पंचभूमिकाकथनस्याभिप्रायोऽस्ति ॥ इति षष्टकमलेऽष्टांगयोगकथनं समाप्तम् ॥
*१॥ अथ सप्तमकमले राजयोगं श्रीशंकरा.
चार्योक्तं शृणु। परिपक्वं मनो येषां केवलोऽयं च सिद्धिदः।
किंचित्पक्वकषायाणां हठयोगेन योजितः ॥ १ यमः-सर्वं ब्रह्मेति विज्ञानादिंद्रियग्रामसंयमः।
यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः।।२ नियमः-सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ।
नियमोऽयं परानंदो नियमात्क्रियते बुधैः ॥३ आसनं-सिद्धं यत्सर्वभूनादि विश्वाधिष्ठानमद्वयं ।
यस्मिन्सिद्धाः समाविष्ठास्तद्वै सिद्धासनं विदुः॥४
For Private and Personal Use Only