________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४८) । भागवतेऽप्येवमुक्तं न यस्य जन्मकर्मभ्यां वर्णाश्रमादिजातिभिः । अहंभावो प्रसज्येत देहे वै स हरेः प्रियः ॥ गीतायामपि ' इहैव तैर्जितः सो येषां साम्ये स्थितं मनः । निर्दोष हि समं ब्रह्म तस्मात्ते ब्रह्मणि स्थिताः' ॥अतोपि समे ब्रह्मानंदे मनो स्थापयेत्, न तु भेदात्मके देहे विषयेषु वा। इयमेव कषायविघ्नविनाशकोपायभृता दोषदृष्टि रुक्ता ॥३॥
११ ॥ रसास्वादरूपविघ्नं दुःखाभावजन्यसुखस्य चिंतनं ब्रह्मानंदस्य वा चिंतनरूपं परित्यज्यांतःकरणं ब्रह्माणि स्थापयेत् । यथा निर्विघ्नं सर्प हत्वा तजन्यं सुखं प्राप्य यदि निधिं न स्वीकरोति तदा निधेः सुखं कथं लभेत्? एवं रसास्वादे लंपटो भूत्वा मुख्यब्रह्मानंदाद्विमुखो भवति तस्माद् व्यर्थकालो गच्छतीति चिंतयित्वा परमानंदे मनो नियाजयेदिति विघ्नहर उपायो ज्ञातव्यः, तमाश्रित्य विघ्नं हत्वा निर्विकल्प स्थिरो भवेत् ॥ ४ ॥
For Private and Personal Use Only