________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४४) ८॥ लयविघ्नं ब्रह्मानंदं परित्यज्य निद्रायां अंतःकरणस्य प्रवृत्तिरिति ! तं संबोधयित्वा ब्रह्मानंदे स्थापयेत् इति विघ्नस्य जयसाधनम् ॥१॥ ॥ वि. क्षेपविघ्नं ब्रह्मणः सूक्ष्मत्वेन तत्र वृत्तेरतदाकारतारूपमस्ति । तां वृत्तिं शमयित्वा ब्रह्मानंदे स्थापयेदिति जयोपायः ज्ञातव्यम ॥ २॥ ॥ कषायविघ्नं बाह्यांत एव कांतादिविषयेषु रागात्मकरूपं ॥ तं रागं विषयेषु दोषदृष्टया परित्यज्यांतःकरणस्य वृत्तिं ब्रह्मणि स्थापयेत् । अयं तस्य जयोपायोऽस्ति ।
९॥ ननु कीदृशी दोषदृष्टिर्भवति यया विषयेषु रागो न स्यादिति चेत्तदा शृणु। अनित्यानास्माऽशुचिदुःखस्वरूपे देहे या नित्यत्वाऽऽत्मत्वशुचित्वसुखरूपत्वभावना सा चतुर्विधाऽविद्याऽस्ति तामविद्यां शरीरेऽशुचित्वादिदोषदृष्टया विनाशयिवा स्वकीये देहे विषयरूपकांतादौ च रागं त्यक्त्वा मनो ब्रह्मणि स्थापयेत् ।
For Private and Personal Use Only