________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४२ )
६ ॥ निर्विकल्पसमाधिरद्वैतावस्थानरूपा या ऽस्ति तत्र तु वृत्तेरेव विलयो भवति यथा तप्तलोहे जलबिंदु विलयं याति न पुनरावर्तते तद्वदेव वृत्तिर्विलयं प्राप्य पुनर्नावर्तते, "न स पुनरावर्तते " इति प्र माणात् ॥ सुषुप्तौ वृतेरज्ञाने लयत्वात् देहस्य पतनं भवति, तदा सुखमपि स्पष्टं न विज्ञायते अज्ञानावृतस्वात्, अतो भवति सा सुषुत्यवस्थ ।। निर्विकल्पसमाधौ वृत्तिः परमानंदे विलयं याति तत्र सुखमपि निरावरणं स्पष्टं भासते । अतस्तयो भेद एवं योगिभिः प्रतिपादितः ॥
७ ॥ तस्मात्स एव योगी जीवन्मुक्तो भवति यश्चत्वारि विघ्नानि त्यक्त्वा अखंडे निर्विकल्पानंदे सर्वदैव तिष्ठति । इति समाधिकथनं । समाधौ चत्वारि विघ्नानि भवति तेषां नामानि लक्षणानि जयकारणानि चैवं संति । लयविक्षेपकषायरसास्वादानि विघ्नानां नामानि संति । लक्षणानि त्वं ।
For Private and Personal Use Only