________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३२)
॥ १५ ॥ यथा वस्त्ररंजनकर्मणा गुणांतरस्यो. त्पत्तिफलं भवति तादृकर्मण्यपि मुमुक्षुः प्रवृत्तिं न करोति। तस्य स्वरूपस्य निर्गुणत्वात् तत्र रंजनगुणस्य स्थिातरेवाकाशे कमलस्य स्थितिरिव मनसापि संभावयितुमप्ययोग्याऽस्ति,तदा निर्गुणे गुणस्य स्थितेस्तु कथैव का । पूर्वमलनिवृत्तिधुना गुणोत्पत्तिरिति युगलमेकं कर्म बोद्धव्यं न तु युगलं ।तस्मात्पंचविधं कर्म न तु षड़विधं कर्म ॥ इति चतुर्थकमले मीमांसामतवर्णनं समाप्तम् ॥
॥ अथ पंचमकमले षड्पदार्था अ
नादयः प्रतिपाद्यते ॥ ॥तच्च कर्म सादि भवति ब्रह्म तु अनादि भवति तत्प्रसंगात जीवेशादीनामप्यनादित्वं दर्शियिष्यामः। तत्र प्रमाणं तावच्छृणु ‘जीव ईशो विशुद्धा चि तथा जीवेशयोर्भिदा ॥ माया च तच्चितार्योगः षड़स्माकमनादयः ॥
For Private and Personal Use Only