SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदर्थे मुमुक्षोः कर्मणि प्रवृत्तिर्न संभवति ॥ ॥ १३ ॥ यथा दंडप्रहारकर्मणः फलं घटविनाशो भवति तथा मुमुक्षोः संसारनिवृत्यर्थं कमणि प्रवृत्तिर्न संभवति तस्यानर्थरूपसंसारस्य भ्रमसिद्धत्वादेव ज्ञानेन निवृत्तिर्भवति न तु कर्मणा । ॥यथा वा गमनकियाफलं ग्रामांतरस्य प्राप्तिर्भवति तथा न मुमुक्षाब्रह्मप्राप्तये गमनक्रियायां प्रवृत्तिः संभवति, 'तत्त्वमसीति श्रुतेः स्वस्वरूपप्रतिपादनात् " यत्साक्षादपरोक्षाद्वह्म” इति श्रुतेश्चातिसमपिमेव. ॥ १४ ॥ यथा पाकक्रियाफलं परिणामि भोजनं भवति तथा न मुमुक्षोस्तादृगर्थे कमणि प्रवृत्तिः संभवति, आत्मनः कूटस्थत्वात् , निर्विकारत्वाद. परिणामित्वाच्च ।। यथा प्रक्षालनकर्मणः फलं मलनिवृत्तिर्भवति न तथा मुमुक्षोस्तादृक्कर्मणि प्रवृत्तिः सं. भवति ब्रह्मणो निराकारत्वात्स्फटिकमणिवच्छतस्वरूपत्वात्तदेव मुमुक्षोःस्वस्वरूपत्वात्। “तत्वमसि इति श्रुतेश्च॥ चित्तस्य मलनिवृत्तिश्चत्सापि मुमुक्षुत्वात्पूर्वमेव तत्र विद्यते तदर्थेऽपि कर्मापेक्षा नास्त्यव। अविद्यारूपमलनिवृत्तिश्चेत्साऽपि ज्ञानेन, न तु कर्मकोटिभिर्भवति। अतः कर्मणि प्रवृत्तिर्न भवत्येव । For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy