________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८) एतददृष्टत्वाद्वेदप्रमाणं विना कथं स्वीकार्य भवेत् ?
॥ ११ ॥ यदुक्तं संचितपुण्यकर्मणां फलं योगीवन्मुमुक्षारेकजन्मनि भवतीति । तदपि सिद्धयो. गीवादित्यत्र वेदप्रमाणं विना अष्टांगयोगसाधनेषु प्रवृत्तिमंतरेण चापुण्यवतः स्वर्गप्राप्तिवदविश्वासादुपेक्षणीयमेव तस्य मतं। तस्मान्नित्यनैमित्तिककर्मणां फलभोगाय संचितकर्मणां फलभोगाय च ज्ञानमंतरेणानेकानि जन्मानि भविष्यतिनतु मुक्तिभविष्यति तदुक्तम् ' यदा चर्मवदाऽऽकाशं वेष्टयिष्यति मानवाः । तदा देवमविज्ञाय दुःखस्यांतो भविष्यति॥'
॥ १२ ॥ किंच मीमांसकमते कर्मफलं पंचविधं भवति, तदपि मुमुक्षोर्मुक्तिसाधने नोपयोगी भवति ॥ तथाहि यथा घटस्योत्पत्तिः कुलालकृतस्य कर्मणः फलं भवति तथा मुमुक्षोः परमानंदस्य प्राप्तिः कंठस्थभूषणवन्नोत्पद्यते।तथाऽनर्थस्याज्ञानतत्कायस्य निवृत्तिरपि रज्जुज्ञानेन सर्पनिवृत्निरिव ब्रह्मज्ञानेव भवति, न तु कोटिकर्मभिः। “ न कर्मणा न प्रजया” इति श्रुतेः संसारानर्थस्य नित्यनिवृत्तत्वाच्च
For Private and Personal Use Only