________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८०) ६ ॥ न द्वितीयोपि जन्मानेकसहस्रकृत पुण्यकर्मपुंज परिपाकेनेश्वरप्रसादेन च सर्वदृश्यसिथ्यात्व निश्चयपूर्वकं ब्रह्मैवाहमिति ब्रह्मा कवविज्ञानमप्रतिबद्धं यदा समुत्पन्नं स्याचदा गृहस्थोऽपि याज्ञवल्क्यादिवदेषणाभ्यो व्युत्थास्यति न त्वहममेति संसतुमर्हति तत्कारणासंभवात् संसारकारणं खल्वनास्मनि देहादावहंभावस्तदन्यत्र ममभावश्च तदेतदूयं यस्य ब्रह्मात्मैकत्वविज्ञानेन विध्वस्ते न स पुनः संसाराय कल्पते न हि ॥ ब्रह्मैवाहमिति विज्ञानं ब्राह्मणोऽहं ममेदमिति बुद्धिश्च तेजस्तिमिरवत् परस्परविरुद्धमेकत्र वस्तुं शक्नोति ततो ब्रह्मतत्त्वविज्ञानखड्गनिर्भिन्नहृदयग्रंथेः पुनः संसरणं न संभवत्यतः संसारात् व्युतिष्ठत्येव
For Private and Personal Use Only