SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२ ) ५ ॥ यद्वा नित्यनैमित्तिककर्मसु यत्क्लेशो भवति तेन संचितपापानि विनश्यंति, शेषं पुण्यमात्रं यदस्ति तस्मादागामिजन्मनि केवलं सुखमनुभूय विमुच्यते यद्वा कामनाऽभावादेव संचितपुण्यं विनश्यति ततः स्वर्गं नरकं वाप्यगत्वा मुमुक्षुर्विमुक्तो भवति, शुभाशुभकर्मणोरभावात् ॥ ६ ॥ इत्येवं मीमांसकमतेन प्रदर्शितस्य मोक्षस्यासंभवः, 'ऋते ज्ञानान्न मुक्ति' रिति श्रुतिवचनविरोधात् । यदुक्तं नित्यनैमित्तिककर्मणोरकरणे यत्पापं भवति तत्पापं तेषां करणेन न भवति, इदमेव नित्यनैमित्तिककर्मणोः फलं न ततोऽधिकमिति तदपि मिथ्याप्रलापं न सत्यं तेषां वाक्यं, भाष्यकारवचनविरोधात् ॥ भाष्यकारेणोक्तं यदि नित्यनैमित्तिककर्मणोः फलं स्वर्गप्राप्तिं श्रुतिर्न वदेत्तह्यनर्थक्यमेव तयोः प्रसज्येत निष्फलत्वादितेि ॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy