________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५८ )
१९ ॥ ईश्वरोऽनंतशक्तित्वात्स्वतंत्रोऽन्यानपेक्षितः | स्वेच्छामात्रेण सकलं सृजत्यवति इंति च १६ उपास्योपासकत्वेन गुरु शिष्य क्रमेण च स्वामिभृत्यादि रूपेण क्रीडति स्वेच्छयेश्वरः ॥ १७ ॥ राहोः शिरः सुषिः खस्य ममात्मा प्रतिमावपुः । इत्यादिकल्पना तुल्या न पृथग्वस्तुगोचरा १८ पितरं प्रति पुत्रो यः पुत्रं प्रति पितैव सः । एक एव हि नानेव कल्पते शब्दमात्रतः १९ परस्यांशो विकारो वा जीवो वाक्येन नोच्यते जीवात्मना प्रविष्टत्वात्स्वमायया सृष्टमूर्तिषु ॥ २० ॥
यथा संधिरूपे स्व विनैव संस्कारं तत्र सह चरैः सह क्रीडति तथाऽत्रापि ॥ ननु ॥ कथं स्वप्नस्य संधिर्नाम तत्राह ॥ यथा शशि सूर्यवर्जितनियतकालस्य संध्येति नामास्तितद्वज्जाग्रत्परलोकाभ्यां वर्जितस्य स्वप्नस्य संधीति नाम || संध्ये सृष्टिराहेत्यनेन सूत्रेण व्यासेनोच्यते तथाहि जाग्रति स्वप्नस्यांतर्भा वोनास्ति स्वप्नगतजीवस्य ज्वरादिपीडितजाग्रत्देहेन सह संबंधाभावादत्र सुप्तेसति स्वप्ने पद्धयां गमनदर्शनाच्च तथा परलोके प्यंतर्भावो नास्ति जाग्रति देहदाहेन परलोकगतजीवस्य दुःखानुभावाभावेसत्यपि स्वप्नगतजीवस्य जाग्रतिदेददाहेन दुःखीभूत्वाप्रबोधदर्शनात् स्वप्नस्य संघितास्ति न तत्ररथानस्थयोगा इति श्रुतिरपि व्यासूत्रेप्रमाणभूताऽस्ति ॥
For Private and Personal Use Only
10